अध्यायः 054

रामकृष्णयोः विद्याभ्यासार्थं सान्दीर्पिन्याचार्यसमीपगमनम् ॥ 1 ॥ सान्दीपिनिना गुरुदक्षिणात्वेन मृतपुत्रानयनं चोदितेन कृष्णेन स्वेनोज्जीवि तस्य पुत्रस्य समर्पणम् ॥ 2 ॥ कंसपराक्रमादिवर्णनम् ॥ 3 ॥ कृष्णेन जरासन्धपराजयः ॥ 4 ॥

भीष्म उवाच ॥

ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः ।
गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ ॥
व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु ।
अहोरात्रैश्चतुष्पष्ट्या साङ्गान्वेदानवापतुः ॥
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ ।
गान्धर्ववेदं वैद्यं च सकलं समावापतुः ॥
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम् ।
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः ॥
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ ।
ताविष्वासवराचार्यमभिगम्य प्रणम्य च ॥
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु ।
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ॥
सरहस्यं धनुर्वेदं सकलं ताववापतुः ।
दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत् ॥
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम् ।
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः ॥
पुत्रमानय भद्रं ते भक्षितं तिमिना मम ।
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् ॥
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित् ।
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ ॥
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः ।
ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः ॥
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥
सर्वेषामेव भूतानां विस्मयः समजायत ।
आसनानि च सर्वाणि गवाश्वं च धनादिकम् ॥
सर्वं तदुपजहाते गुरवे रामकेशवौ ।
गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः ॥
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः ।
कश्च नारायणादन्यः सर्वरत्नविभूषितम् ॥
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः ।
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा ॥
मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात् ।
भोजराजात्मजो वापि कंसस्तात युधिष्ठिर ॥
अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत् ।
तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात् ॥
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः ।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ॥
शतं शतसहस्राणि पादातास्तस्य भारत ।
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ॥
अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः ।
रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठि ॥
अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम् ।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम् ॥
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै ।
अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर ॥
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान् ।
स च षोडशसाहस्रः कंसभ्रातृपुरः सरः ॥
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत् ।
सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते ॥
कंसरोषमहावेगां वैवस्वतवशानुगाम् ॥
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ॥
शस्रजालमहाफेनां सादिवेगमहाजलाम् ।
गदापरिघपाठीनां नानाकवचशैवलाम् ॥
रथनागमहावर्तां नानारुधिरकर्दमाम् ।
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ॥
महामृधनदीं घोरां योधावर्तननिस्वनाम् ।
कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर ॥
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत ।
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः ॥
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम् ।
आनयामास मानार्हां देवकीं समुहृद्गणाम् ॥
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः ।
उग्रसेनं च राजानमभिषिच्य जनार्दनः ॥
अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः । ततः पार्थिवमायान्तं सहितं सर्वराजभिः ।
सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुः पञ्चाशोऽध्यायः ॥ 54 ॥