अध्यायः 056

कृष्णस्य नरकं निहत्य तदीयधनरत्नादिकं शतोत्तरषोडशसहस्रस्त्रीसहितं मणिपर्व तं च गरुडमारोप्य स्वर्गलोकगमनम् ॥ 1 ॥ रामकृष्णयोः अदित्यै कुण्डलादिकं दत्त्वा अदितिशचीभ्यां सत्कृतया सत्यभामया सह द्वारकां प्रत्यागमनम् ॥ 2 ॥

भीष्ण उवाच ॥

निहत्य नरकं भौमं सत्यभामासहायवान् ।
सहितो लोकपालैश्च ददर्श नरकालयम् ॥
अथास्य गृहमासाद्य नारकस्य महात्मनः । ददर्श धनमक्षय्यं रत्नानि विविधानि च ।
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च ।
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि ॥
जाम्बूनदमयान्येव शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ॥
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम् ।
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु ॥
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः ।
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि ॥
हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत् ।
दाशार्हपतिमासीनमाहृत्य मणिकुण्डले ॥
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः ।
विमलानि पताकानि वासांसि विविधानि च ॥
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ।
ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः ॥
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः ।
गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन ॥
एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम ।
वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया ॥
भीष्म उवाच ।
देवगन्धर्वरत्नानि दैतेयासुरजानि च ।
यानि सन्ति हिरण्यानि नरकस्य निवेशने ॥
एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः ।
दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम् ॥
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥
हर्म्याणि च विशालानि मणिसोपानवन्ति च ।
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम् ॥
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा ।
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ॥
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥
व्रतसन्तापजः शोके नात्र कश्चिदपीडयत् ।
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि ॥
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः ।
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः ॥
नारदेन समाख्यातमस्माकं पुरुषोत्तम ।
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ॥
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च ।
भौमं च सपरीवारं हयग्रीवं च दानवम् ॥
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम् ।
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति ॥
एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा ।
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे ॥
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम् । इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम ।
तपश्चराम सततं रक्ष्यमाणा हि दानवैः ॥
ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत् ।
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति ॥
भीष्ण उवाच ॥
तासां परमनारीणामृषभाक्षं पुरः स्थितम् ।
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ॥
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः । सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ।
सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत् ।
सर्वभूतहितज्ञश्च महर्षिरपि नारदः ॥
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम् ॥
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः ।
वचनादेव सत्यं नो भर्ता भवितुमर्हसि ॥
यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम ।
दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः ॥
उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः ।
यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति ॥
ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः ।
क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः ॥
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् ।
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ॥
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम् ॥
स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि ।
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ॥
उपेन्द्रं बलदेवं च वासवं च महाबलम् ।
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ॥
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन् ।
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ॥
सञ्जहार महाभ्राणि वैश्वानरपथं गतः ।
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ॥
प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप ।
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः ॥
शक्रसद्म समासाद्य चावरुह्य जनार्दनः । सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः ।
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ॥
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः ।
रत्नान च परार्घ्याणि रामेण सह केशवः ॥
प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम् ।
पूजयामास दाशार्हं रामं च विगतज्वरा ॥
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा ।
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत् ॥
सा तस्याः सत्यभामायाः कृष्णाप्रियचिकीर्षया ।
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा ॥
जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले ।
सर्वगन्धगुणोपेता भविष्यसि वरानने ॥
विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा ।
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् ॥
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः ।
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः ॥
शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः ।
वर्घमानपुरद्वारमाससाद सुरोत्तमः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षट््पञ्चाशोऽध्यायः ॥ 56 ॥