अध्यायः 058

कृष्णदर्शनाय वसुदेवादीनामागमनम् ॥ 1 ॥ रामकृष्णाभ्यां पित्रादिवन्दनपूर्वकं बन्धुभ्यो रत्नादिवितरणम् ॥ 2 ॥ इन्द्रस्य कृष्णचरितप्रशंसनपूर्वकं स्वलोकगमनम् ॥ 3 ॥

भीष्म उवाच ।

एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः ।
उपेन्द्रबलदेवौ च वासवश्च महायशाः ॥
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः ।
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ॥
तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम् ।
ररास च नभः सर्वं तच्चित्रमभवत्तदा ॥
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥
वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह ।
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ॥
आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी ।
रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः ॥
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयटः ।
एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः ॥
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात् ।
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ॥
ततो धनानि रत्नानि सभायां मधुसूदनः ।
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ॥
ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत ।
यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः ॥
ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः ।
तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम् ॥
ववन्दे सह रामेण पितरं वासवानुजः ।
ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा ॥
यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च ।
व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः ॥
सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा ।
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा ॥
अथासनगतान्सर्वानुवाच विबुधाधिपः । शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः ।
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम् ॥
इन्द्र उवाच ।
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ।
यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः ॥
अयं शतसहस्राणि दानवानामरिन्दमः ।
निहय् पुण्डरीकाक्षः पातालविवरं ययौ ॥
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं शौरिणा वित्तं प्रापितं भवतामिह ॥
सपाशं मुरमाक्रमय् पाञ्चजन्यं च धीमता ।
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः ॥
हयग्रीवश्च विक्रान्तो दानवो निहतो बली ।
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः ॥
पुनर्बाणवधे शौरिमादित्या वसुभिः सह ।
मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम् ॥
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान् ।
सस्वजे रामकृष्णौ च वसुदेवं च वासवः ॥
प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम् ।
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा ॥
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम् । सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम् ।
भोजं च कृतवर्णाणमन्यांश्चान्दकवृष्णिषु ॥
आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम् ।
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः ॥
पश्यतां सर्वभातानामारुरोह शचीपतिः ।
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् ॥
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् ।
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ॥
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् ।
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥
दिशागजं महामात्रं काञ्चनस्रजमास्थितः ।
प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव ॥
ततो वज्मयं भीमं प्रगृह्य परामाङ्कुशम् ।
ययौ बलवता सार्धं पावकेन शचीपतिः ॥
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः ।
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥
स वायुपक्षमास्थाय वैश्वानरपथं गतः ।
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥