अध्यायः 060

शर्ववरगर्वितेन बाणासुरेण स्वतनयया उषया सह गूढं रममाणस्य अनिरुद्घस्य कारा गृहप्राषणम् ॥ 1 ॥ नारदाद्विदितपौत्रवृत्तेन कृष्णेन सरामप्रद्युम्नेन बाणं निर्जित्य उषया सह अनिरुद्घानयनम् ॥ 2 ॥

भीष्म उवाच ॥

द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम् ।
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः ॥
पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा ।
सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ ॥
बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली ।
वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान् ॥
ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप ।
रुद्रमाराधयामास स च बाणः समा बहु ॥
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना ।
तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि ॥
स शोणितपुरे राज्यं चकाराप्रतिमो बली ।
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव ॥
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून् ।
अशासत महद्राज्यं कुबेर इव भारत ॥
ततो राजन्नुषा नाम बाणस्य दुहिता यथा ।
येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः ॥
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह ।
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर ॥
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा ।
गृहीत्वा कारयामास वस्तुं कारागृहे बलात् ॥
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः ।
बामेन घातितो राजन्ननिरुद्धो मुमोह च ॥
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः ।
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत् ॥
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन ।
पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा ॥
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा ।
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ ॥
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः ।
जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम् ॥
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः ।
ततः सुपर्णमारुह्य जयाय भरतर्षभ ॥
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति ।
अथासाद्य महाराज तत्पुरं ददृशुश्च ते ॥
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम् ।
दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः ॥
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा ।
महेश्वरो गुहश्चैव भद्रकाली विनायकः ॥
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर ।
सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत् ॥
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम् ।
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः ॥
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया ।
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम् ॥
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ ।
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ॥
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ ।
दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा ॥
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना । विजित्य तं महादेवं ततो युद्धे शूलपाणिना ।
अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम् ॥
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः । चक्रे युद्धं महाक्रुद्धस्तेन बाणेन भरतर्षभ ।
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ ।
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे ॥
पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः ।
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे ॥
ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत ।
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः ॥
चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः ।
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ॥
ततो बाणो महाराज कृष्णेन भृशपीडितः ।
भिन्नबाहुः पपाताशु विशाख इव पादपः ॥
स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः ।
प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा ॥
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया ।
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः ॥
गोधनानि च सर्वस्वं स बाणस्यालये बलात् ।
जहार च हृषीकेशो यदूनां कुलवर्धनः ॥
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः ।
क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि ॥
त्वरयाऽथ स कौन्तेय बलदेवं महाबलम् ।
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम् ॥
उषां च सुन्दरीं राजन्भृत्यदारगणैः सह ।
सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान् ॥
मुदा युक्तो महातेजाः पीताम्बरधरो बली । दिव्याभरमचित्राङ्गः शङ्कचक्रगदासिभृत् । 2-60-38ca आरुरोह गरुत्मन्तमुदयं भास्करो यथा ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥