अध्यायः 065
कृष्णनिन्दाश्रवणेन शिशुपालजिघांसया उत्पततो भीमस्य भीष्मेण विनिवर्तनम् ॥ 1 ॥
शिशुपाल उवाच ।
स मे बहुमतो राजा जरासन्धो महाबलः ।
योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे ॥
केशवेन कृतं कर्म जरासन्धवधे तदा ।
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना ।
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः ॥
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता ।
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने ॥
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः ।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ॥
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे ।
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया ।
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥
अथवा नैतदाश्चर्यं येषां त्वमसि भारत ।
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥
वैशम्पायन उवाच ॥
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु ।
चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते ।
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः ॥
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम् ।
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः ॥
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन् ।
भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत ।
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः ।
समुद्वृत्तो घनापाये वेलामिव महोदधिः ॥
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप ।
नाकम्पत तदा वीरः पौरुषे व्यवस्थितः ॥
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः ।
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा ॥
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् ।
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः ।
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना ॥
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः ।
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः ॥
`नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम् ।
भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः' ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
2-65-13 महासेन कार्तिकयम् ॥