अध्यायः 068

भीष्मवाक्यात्कुपितेन शशुपालेन राज्ञः सज्ञाह्य युयुत्सया कृष्णस्याह्वानम् ॥ 1 ॥ कृष्णेन स्वस्मिन् शिशुपालकृतापराधान्विश्राव्य विभीषितानां राज्ञां पलायनम ् ॥ 2 ॥ अपगतेषु राजसु शिशुपालस्य एकाकिनः कृष्णं प्रति युद्धाय गमनम् ॥ 3 ॥

वैशम्पायन उवाच ॥

वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः ।
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन ।
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥
सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः ।
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् ।
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ॥
इत्युक्त्वा राजशार्दूल `शार्दूल इव नादयन् ।
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान् ॥
स रणायैव सङ्क्रुद्धः सन्नद्धः सर्वराजभिः ।
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया ॥
ततश्चक्रगदापाणिः केशवः केशिहा हरिः । सध्वजं रथमास्थाय दारुकेण सुसत्कृतम् ।
भीष्मेण दत्तहस्तोऽसावारुहोह रथोत्तमम् ॥
तेन पापस्वभावेन कोपितान्सर्वपार्थिवान् ।
आससाद रणे कृष्णः सज्जितैकरथः स्थितः ॥
ततः पुष्करपत्राक्षं तार्क्ष्यध्वजरथे स्थितम् ।
दिवाकरमिवोद्यन्तं ददृशुः सर्वपार्थिवाः ॥
आरोपयन्तं ज्यां कृष्णं प्रतपन्तमिवौजसा ।
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम् ॥
दृष्ट्वा कृष्णं तथा यान्तं प्रतपन्तमिवौजसा ।
यथार्हं केशवे वृत्तिमवशाः प्रतिपेदिरे ॥
तानुवाच महाबाहुर्महाऽसुरनिबर्हणः ।
वृष्णिवीरस्तदा राजन्सान्त्वयन्परवीरहा ॥
श्रीभगवानुवाच ॥
अपेत सबलाः सर्व आस्वस्ता मम शासनात् ।
मा दृष्टो दूषयेत्पाप एष वः सर्वपार्थिपाः ॥
एष नः शत्रुरत्यन्तमेष वृष्णिविमर्दनः ।
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम्' ॥
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् ।
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः ॥
क्रीडतो भोजराजस्य एव रैवतके गिरौ ।
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा ॥
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् ।
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥
सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः ।
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥
एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम् ।
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥
वृष्णिदारान्विलाप्यैव हत्वा च कुकुरान्धकान् ।
पापाबुद्धिरुपातिष्ठत्स प्रविश्य ससम्भ्रमम् ॥
विशालराज्ञो दुहितां मम पित्रा वृतां सतीम् ।
अनेन कृत्वा सन्धानं करूशेन जिगीषया ॥
जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे ।
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः ॥
एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी ।
अस्माकमयमारम्भांश्चकार परभानृजुः ॥
शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम् ।
बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे ॥
तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया ।
द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन ॥
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम् ।
इति मे वर्तते भावस्तमतीयां कथं न्वहम् ॥
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् ।
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते ॥
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् ।
कृतानि तु परोक्षं मे यानि तानि निबोधत ॥
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् ।
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः ।
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव ॥
वैशम्पायन उवाच ॥
एवमादि ततः सर्वे सहितास्ते नराधिपाः ।
गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः ॥
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ।
रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा ॥
श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः ।
विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे ॥
तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् ।
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह ॥
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् ।
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् ।
अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधूसूदन ॥
क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम ।
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते ॥
`वैशम्पायन उवाच ॥
स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान् ।
कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान् ॥
शिशुपालो रथेनैकः प्रत्युपायात्स केशवम् ।
रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

2-68-31 विश्रुताः श्राविताः ॥