अध्यायः 073

व्यासम्प्रति युधिष्ठिरेण उत्पातफलप्रश्ने व्यासेन तत्कथनपूर्वकं कैलासगमनम ् ॥ 1 ॥ व्यासोक्तं भ्रातृषु निवेद्य शोचतो युधिष्ठिरस्य अर्जुनेन समाश्वासनम् ॥ 2 ॥ यिधिष्ठिरेण समयकरणम् ॥ 3 ॥

वैशम्पायन उवाच ॥

`अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम् ।
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम् ॥
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा' ।
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत ॥
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः ।
पाद्येनासनदानेन पितामहमपूजयत् ॥
अथोपविश्य भगवान्काञ्चने परमासने ।
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम् ॥
अथोपविष्टं राजानं भ्रातृभिः परिवारितम् ।
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः ॥
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् ।
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह ॥
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते ।
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः ॥
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत् ॥
युधिष्ठिर उवाच ।
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः ।
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव ॥
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः ।
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह ॥
`सुमहच्च फलं तेषां भवितेति न संशयः' ।
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत् ॥
वैशम्पायन उवाच ॥
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः ।
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् ॥
त्रयोदश समा राजन्नुत्पातानां फलं महत् ।
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते ॥
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ । समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते ।
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् ।
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् ॥
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम् ।
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम् ॥
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम् ।
निरीक्षमाणं सततं पितृराजाश्रितां दिशम् ॥
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते ।
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः ॥
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति ।
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ ।
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः ॥
गते पितामहे राजा चिन्ताशोकसमन्वितः ।
निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन् ॥
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् ।
अवश्यमेव भविता यदुक्तं परमर्षिणा ॥
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः ।
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् ॥
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः ।
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः ॥
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः ।
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत ॥
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम् ।
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर ॥
वैशम्पायन उवाच ॥
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः ।
द्वैपायनस्य वचनं तत्रैव समचिन्तयत् ॥
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत ।
त्रयोदश समास्तात को ममार्थो ऽस्ति जीवतः ॥
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान् ।
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन् ॥
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च ।
भेदो न भविता लोके भेदमूलो हि विग्रहः ॥
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन् ।
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः ॥
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत ।
तमेव समवर्तन्त धर्मराजहिते रताः ॥
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह ।
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते ॥
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः ।
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ ॥
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् । दुर्योधनो महाराज शकुनिश्चापि सौबलः ।
सभायां समणीयायां तत्रैवास्ते नराधिप ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥