अध्यायः 080

दुर्योधनम्प्रति धृतराष्ट्रेण पाण्डवेषु द्वेषनिषेधनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।

त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा ॥
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् ।
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप ।
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः ॥
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ।
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् ।
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥
अनार्याचरितं तात परस्वस्पृहणं भृशम् ।
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥
`मही कामदुघा सा हि वीरपत्नीति चोच्यते ।
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत् ॥
तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम् ॥
अयुक्तमिदमेतत्तु परस्वहरणं भृशम् ।
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम् ॥
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु ।
रक्षणं समुपात्तानामेतद्वैभवलक्षणम् ॥
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते ।
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु ॥
पाण्डोः पुत्रान्मा द्विषस्वेह राजं- स्तथैव ते भ्रातृधनं समग्रम् ।
मित्रद्रोहे तात महानघर्मः पितामहा ये तव तेऽपि तेषाम् ॥
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् ।
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

2-80-1 ज्येष्ठाया अपत्यं ज्यैष्ठिनेयः ॥ 2-80-2 अव्युत्पन्नं परकपटानभिज्ञम् । समानार्थं तुल्यधनम् । तुल्यमित्रं त्वन्मित्रा द्रोहिणम् अद्विषन्तं च त्वामपीति शेषः ॥