अध्यायः 002

द्वारकां गच्छतः श्रीकृष्णस्य युधिष्ठरादिभिः सारत्यादिकरणम् ॥ 1 ॥ अर्धयोजनपर्यन्तं गतानां कृष्णपाण्डवानां परस्परानुज्ञया स्वस्वपुरगमनम् ॥ 2 ॥

वैशम्पायन उवाच ।

उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः ।
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥
गमनाय मतिं चक्रे पितुर्दर्शनलालसः ।
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः ।
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः ।
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम् ।
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥
तया स्वजनगामीनि श्रावितो वचनानि सः ।
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम् ।
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः ।
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च ॥
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली ।
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः ।
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः ॥
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः ।
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि ॥
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः ।
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः ॥
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः ।
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत् ॥
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् ।
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम् ॥
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते ।
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः ॥
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः ।
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ॥
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ।
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम् ॥
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम् ।
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान् ॥
`छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् । वैडूर्यमणिदण्डं च चामीकरविभूषितम् ।
दधार तरसा भीमः मुच्छत्रं शार्ङ्गधन्वने ।
भीमसेनार्जुनौ चापि यमावरिनिषूदनौ' ॥
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता ।
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा ॥
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ।
`अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा ॥
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः । इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः' ।
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ॥
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा ।
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः ॥
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः ।
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत ॥
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् ।
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम् ॥
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम् ।
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ॥
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान् ॥
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम् ॥
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा ॥
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ।
अतृप्तमनसामेव तेषां केशवदर्शने ॥
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ।
अकामा एव पार्थास्ते गोविन्दगमानसाः ॥
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः ।
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात् ॥
सात्वतेन च वीरेण पृष्ठतो यायिना तदा । दारुकेण च सूतेन सहितो देवकीसुतः ।
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान् ॥
वैशम्पायन उवाच ।
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः ।
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् ॥
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट् ।
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप ॥
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम् ।
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा ॥
आहुकं पितरं वृद्धं मातरं च यशस्विनीम् ।
अभिवाद्य बलं चैव स्थितः कमललोचनः ॥
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा ।
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः ॥
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ ।
`स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम् ॥
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा ।
विधिवत्कल्पयामास सभां धर्मसुताय वै ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥