अध्यायः 083
विदुरस्य इन्द्रप्रस्थगमनम् ॥ 1 ॥ पाण्डवानां द्यूतसभाप्रवेशः ॥ 2 ॥
वैशम्पायन उवाच ॥
ततः प्रायाद्विदुरोऽश्वैरुदारै-
र्महाजवैर्बलिभिः साधु दान्तैः ।
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा
मनीषिणां पाण्डवानां सकाशे ॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् ।
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥
स राजगृहमासाद्य कुबेरभवनोपमम् ।
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥
तं वै राजा सत्यधृतिर्महात्मा
अजातशत्रुर्विदुरं यथावत् ।
पूजापूर्वं प्रतिगृह्याजमीढ-
स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥
युधिष्ठिर उवाच ॥
विज्ञायते ते मनसोऽप्रहर्षः
कच्चित्क्षत्तः कुशलेनागतोऽसि ।
कच्चित्पुत्राः स्थविरस्यानुलोमा
वशानुगाश्चापि विशोऽथ कच्चित् ॥
विदुर उवाच ॥
राजा महात्मा कुशली सपुत्र
आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः ।
प्रीतो राजन्पुत्रगुणैर्विनीतो
विशोक एवात्मरतिर्महात्मा ॥
इदं तु त्वां कुरुराजोऽभ्युवाच
पूर्वं पृष्ट्वा कुशलं चाव्ययं च ।
इयं सभा त्वत्सभातुल्यरूपा
भ्रातॄणां ते दृस्यतामेत्य पुत्र ॥
समागम्य भ्रातृभिः पार्थ तस्यां
सुहृद्द्यूतं क्रियतां रम्यतां च ।
प्रीयामहे भवतां सङ्गमेन
समागताः कुरवश्चापि सर्वे ॥
दुरोदरा विहिता ये तु तत्र
महात्मना धृतराष्ट्रेण राज्ञा ।
तान्द्रक्ष्यसे कितवान्सन्निविष्टा-
नित्यागतोऽहं नृपते तज्जुषस्व ॥
युधिष्ठर उवाच ॥
द्यूते क्षत्तः कलहो विद्यते नः
को वै रोचतने बुध्यमानः ।
किं वा भवान्मन्यते युक्तरूपं
भवद्वाक्ये सर्व एव स्थिताः स्मः ॥
विदुर उवाच ॥
जानाम्यहं द्यूतमनर्थमूलं
कृतश्च यत्नोऽस्य मया निवारणे ।
राजा च मां प्राहिमोत्त्वत्सकाशं
श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥
युधिष्ठिर उवाच ॥
के तत्रान्ये कितवा दीव्यमाना
विना राज्ञो धृतराष्ट्रस्य पुत्रैः ।
पृच्छामि त्वां विदुर ब्रूहि नस्तान्
यैर्दीव्यामः शतशः सन्निपत्य ॥
विदुर उवाच ॥
गन्धारराजः शकुनिर्विशाम्पते
राजाऽतिदेवी कृतहस्तो मताक्षः ।
विनिंशतिश्चित्रसेनश्च राजा
सत्यव्रतः पुरुमित्रो जयश्च ॥
युधिष्ठिर उवाच ॥
महाभयाः कितवाः सन्निविष्टा
मायोपधा देवितारोऽत्र सन्ति ।
धात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगत्तिष्ठति न स्वतन्त्रम् ॥
नाहं राज्ञो धृतराष्ट्रस्य शासना-
न्न गन्तुमिच्छामि कवे दुरोदरम् ।
इष्टो हि पुत्रस्य पिता सदैव
तदस्मि कर्ता विदुरात्थ मां यथा ॥
न चाकामः शकुनिना देविताहं
न चेन्मां जिष्णुराह्वयिता सभायाम् ।
आहूतोऽहं न निवर्ते कदाचित्
तदाहितं शाश्वतं वै व्रतं मे ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा विदुरं धर्मराजः
प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् ।
प्रायाच्छ्वोभूते सगणः सानुयात्रः
सह स्त्रीभिर्दौपदामादि कृत्वा ॥
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत् ।
धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥
इत्युक्त्वा प्रययौ राजा सह क्षत्र्रा युधिष्ठिरः ।
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः ॥
बाह्लिकेन रथं यत्तमास्थाय परवीरहा ।
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ।
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः ॥
`सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति ।
ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम् ॥
ततो राजा महातेजाः संयम्य सपरिच्छदम् ।
ब्राह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि ।
अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे ॥
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम् ।
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम् ॥
हारी किरीटी हेमाभः सर्वाभरणभूषितः ।
रराज राजन्पार्थो वै परया नृपशोभया ॥
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः ।
ततो जगाम राजा स प्रहृष्टनरवाहनः ॥
रथघोषेण महता पूरयन्वै नभः स्थलम् ।
संस्तूयमानः स्तुतिभिः सूतमागधबन्दिभिः ॥
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः ।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट् ।
चामरैर्हेमदण्डैश्च धूयमानः समन्ततः ॥
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।
प्रत्यगृह्णाद्यथान्यायं यथआवद्भरतर्षभः ॥
तथैव सैनिका राजन्राजानमनुयान्ति ये ।
तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः ॥
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली ।
उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ ॥
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ ।
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ ॥
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः ।
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः ॥
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः ।
द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः ॥
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च ।
महत्या सेनया राजन्नग्रे यानानि विविधानि च ।
समृद्धनरनागाश्वं सपताकरथध्वजम् ।
संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम् ॥
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम् ।
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप ॥
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया ।
महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति ॥
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना ।
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा ॥
स सरांसि नदीश्चैव वनान्युपवनानि च ।
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत ॥
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः ।
चक्रे निवेशनं तत्र ततः स सहसैनिकाः ॥
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा ।
ततोराजन्समाहूय शोकविह्वलया गिरा ॥
एतद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम् ।
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह ॥
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम् ।
न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे ।
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा ॥
वैशम्पायन उवाच ॥
प्रविवेश ततो राजा नगरं नागसाह्वयम् ।
धृतराष्ट्रेण चाहूतः कालस्य समयेन च' ॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ ।
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च ।
समियाय यथान्यायं द्रौणिना च विभुः सह
समेत्य च महाबाहुः सोमदत्तेन चैव ह ।
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान् ॥
ये चान्ये तत्र राजानः पूर्वमेव समागताः ।
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च ॥
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ।
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः ॥
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ।
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ॥
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ।
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ॥
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः ।
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥
ततो हर्षः समभवत्कौरवाणां विशाम्पते ।
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च ।
ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः ॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव ।
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम् ।
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः ।
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ ।
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः ॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् ।
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥
मुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः ।
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि व्यशीतितमोऽध्यायः ॥ 83 ॥
2-83-2 द्विजातिभिस्त्रैवर्णिकैः ॥ 2-83-6 आत्मरतिः आत्मनः
स्वस्योत्कर्ष एव रतिर्यस्य नतु धर्ममन्वीक्षते इति भावः ॥ 2-83-7 अव्ययं
धनादेरविनाशम् ॥ 2-83-9 दुरोदरा द्यूतकराः ॥ 2-83-17 आदि अविभक्तिकनिर्देशः ॥ 2-83-57 यातारः यातरः ॥ 2-83-59 संविदं मिथः कथाम् । व्यायामः श्रमानोदनव्यापारः
पूर्वो येषां तानि । प्रतिकर ्म केशप्रसाधनादिपरिष्कारम् ॥