अध्यायः 085

भीषमद्रोणादीनां द्यूतसभाप्रवेशः ॥ 1 ॥ द्यूतीपक्रमः ॥ 2 ॥ युधिष्ठिरेण पणीकृतानां सर्ववस्तूनां शकुनिना अपहारः ॥ 3 ॥

वैशम्पायन उवाच ॥

उपोह्यमाने द्यूते तु राजानः सर्व एव ते ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः ।
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत ॥
ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः ।
सिंहासनानि भूरिणी विचित्राणि च भेजिरे ॥
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः ।
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः ।
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥
युधिष्ठिर उवाच ॥
अयं बुहधनो राजन्सागरावर्तसम्भवः ।
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव ।
येन मां त्वं महाराज धनेन प्रतिदीव्यसे ॥
दुर्योधन उवाच ॥
सन्ति मे मणयश्चैव धनानि सुबहूनि च ।
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम् ॥
वैशम्पायन उवाच ॥
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे ।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम् ॥
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः । कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम् ।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥
युधिष्ठिर उवाच ॥
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः ।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥
संह्रादनो राजरथो य इहास्मानुपावहत् ।
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः ॥
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः । वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन् ।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः ।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः ॥
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु । स्नातकानाममात्यानां राज्ञां च मम शासनात् ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ।
एतावन्ति च दासानां सहस्राण्युत सन्ति मे ।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः । पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरभाषत ॥
युधिष्ठिर उवाच ॥
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल ।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि ।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः ।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥
एकैको ह्यत्र लभते सहस्रपरमां भृतिम् । युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ।
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः ।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
रथानां शकटानां च श्रेष्ठानां चायुतानि मे ।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा ॥
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः ।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः ॥
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् । षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ।
ताम्रलोहैः परिवृता निधयो ये चतुः शताः ।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभापतः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

2-85-8 दुरोदरं पणम् ॥ 2-85-11 भाण्डिन्यो मञ्जषाः ॥ 2-85-17 कम्बवः शङ्खवलयानि । निष्पो वक्षोभूषणम् ॥ 2-85-18 चतुष्षष्टिकलासु विशारदाः ॥ 2-85-19 नृत्तसामसु नर्तने गीतिविशेषेषु च ॥ 2-85-24 कृतपीडाः कृतभूषणाः ॥ 2-85-25 ईषा लाङ्गलदण्डः । अष्टकरेणवः, अष्टहस्तिनीकाः ॥