अध्यायः 087
दुर्योधनेन विदुरोपालम्भः ॥ 1 ॥ विदुरेण धृतराष्ट्रस्य हितोपदेशः ॥ 2 ॥
दुर्योधन उवाच ॥
परेषामेव यशसा श्लोघसे त्वं
							सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान् ।
						
						जानीमहे विदुर यत्प्रियस्त्वं
							बालानिवास्मानवमन्यसे नित्यमेव ॥
						
					स विज्ञेयः पुरुषोऽन्यत्रकामो
							निन्दाप्रशंसे हि तथा युनक्ति ।
						
						जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति
							जानीमहे त्वन्मनसः प्रातिकूल्यम् ॥
						
					उत्सङ्गे च व्याल इवाहितोऽसि
							मार्जरवत्पोषकं चोपहंसि ।
						
						भर्तृघ्नं त्वां न हि पापीय आहु-
							स्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥
						
					जित्वा शत्रून्फलमाप्तं महद्वै
							माऽस्मान्क्षत्तः परुषामीह वोचः ।
						
						द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी
							मुहुर्देषं यासि नः सम्प्रयोगात् ॥
						
					अमित्रतां याति नरोऽक्षमं ब्रुव-
							न्निगूहते गुह्यममित्रसंस्तवे ।
						
						तदाश्रितोऽपत्रप किं नु बाधसे
							यदिच्छसि त्वं तदिहाभिभाषतसे ॥
						
					मा नोऽवमंस्था विद्य मानस्तवेदं
							शिक्षस्व बुद्धिं स्थविराणां सकाशात् ।
						
						यशो रक्षस्व विदुर सम्प्रणीतं
							मा व्यापृतः परकार्येशु भूस्त्वम् ॥
						
					अहं कर्तेति विदूर मा च मंस्था
							मा नो नित्यं परुषाणीह वोचः ।
						
						न त्वां पृच्छामि विदुर यद्धितं मे
							स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम् ॥
						
					एकः शास्ता न द्वितीयोऽस्ति शास्ता
							गर्भे शयानं पुरुषं शास्ति शास्ता ।
						
						तेनानुशिष्टः प्रवणादिवाम्भो
							यथा नियुक्तोऽस्ति तथा भवामि ॥
						
					भिनत्ति शिरसा शैलमहिं भोजयते च यः ।
							धीरेव कुरुते तस्य कार्याणामनुशासनम् ।
						
						यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ॥
						
					मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः ।
							दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति ।
						
						भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥
						
					न वासयेत्पारवर्ग्यं द्विषन्तं
							विशेषतः क्षत्तरहितं मनुप्यम् ।
						
						स यत्रेच्छसि विदुर तत्र गच्छ
							सुसान्त्विता ह्यसती स्त्री जहाति ॥
						
						विदुर उवाच ॥ 
					एतावता पुरुषं ये त्यजन्ति
							तेषां सख्यमन्तवद्ब्रूहि राजन् ।
						
						राज्ञां हि चित्तानि परिप्लुतानि
							सान्त्वं दत्वा मुसलैर्घातयन्ति ॥
						
					अबालत्वं मन्यसे राजपुत्र
							बालोऽहमित्येव सुमन्दबुद्धे ।
						
						यः सौहृदे पुरुषं स्थापयित्वा
							पश्चादेनं दूषयते स बालः ॥
						
					न श्रेयसे नीयते मन्दबुद्धिः
							स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
						
						ध्रुवं न रोचेद्भरतर्षभस्य
							पतिः कुमार्या इव षष्टिवर्षः ॥
						
					अतः प्रियं चेदनुकाङ्क्षसे त्वं
							सर्वेषु कार्येषु हिताहितेषु
						
						स्त्रियश्च राजञ्जडपङ्गुकांश्च
							पृच्छ त्वं वै तादृशांश्चैव सर्वान् ॥
						
					लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह ।
							अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः
						
					यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये ।
						अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥
					अव्याधइजं कटुजं तीक्ष्णमुष्णं
							यशोमुषं परुषं पूतिगन्धिम् ।
						
						सतां पेयं यन्न पिबन्त्यसन्तो
							मन्युं महाराज पिब प्रशाम्य ॥
						
					वैचित्रवीर्यस्य यशो धनं च
							वाञ्छाम्यहं सहपुत्रस्य शश्वत् ।
						
						यथा तथा तेऽस्तु नमश्चतेऽस्तु
							ममापि च स्वस्ति दिशन्तु विप्राः ॥
						
					आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः ।
						एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ ॥
					इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥
2-87-3 पापीयः पापीयांसम् ॥ 2-87-11 पारवर्ग्यं शत्रुपक्षजातम् ॥
