अध्यायः 092

दुर्योधनवचनम् ॥ 1 ॥ दुर्योधनेन द्रौपदीं प्रति निजोरौ प्रदर्शिते भीमेन तद्भेदनप्रतिज्ञा ॥ 2 ॥ अर्जुनादिभिः कर्णादिहननप्रतिज्ञा ॥ 3 ॥ द्रौपद्या दुर्योधनादीनां शापदानसमये अन्तरिक्षात्पुष्पवृष्टिः ॥ 4 ॥

वैशम्पायन उवाच ॥

तथा तु दृष्ट्वा बहु तत्र देवीं रोरूयमाणां कुररीमिवार्ताम् ।
नोचुर्वचः साध्वथवाऽप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः ॥
दृष्ट्वा तथा पार्थिवपुत्रपौत्रां- स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् ॥
दुर्योधन उवाच ॥
तिष्ठत्वयं प्रश्न उदारसत्वे भीमेऽर्जुने सहदेवे तथैव ।
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् ॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः ।
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥
धर्मे स्थितो धर्मसुतो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः ।
ईशो वा ते ह्यनीशोऽथवैष वाक्यादस्य क्षिप्रमेकं भजस्व ॥
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव ।
न विब्रुवन्त्यार्यसत्वा यथाव- त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥
वैशम्पायन उवाच ॥
ततः सभ्याः कुरुराजस्य तस्य वाक्यं सर्वे प्रशशंसुस्तथोच्चैः ।
चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः ॥
श्रुत्वा तुं तद्वाक्यमनोहरं त- द्धर्षश्चासीत्कौरवाणां सभायाम् ।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ॥
यद्येष गुरुरस्माकं धर्मराजो महामनाः ।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।
मन्यते जितमात्मानं यद्येष विजिता वयम् ॥
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् ।
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव ।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम् ।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।
धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः ॥
वैशम्पायन उवाच ॥
तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि ॥
कर्ण उवाच ॥
त्रयः किलेमे ह्यधना भवन्ति । दासः पुत्रश्चास्वतन्त्रा च नारी ।
दासस्य पत्नी त्वधनस्य भद्रे हीनश्वरा दासधनं च सर्वम् ॥
प्रविश्य राज्ञः परिवारं भजस्व तत्ते कार्यं शिष्टमादिश्यतेऽत्र ।
ईशास्तु सर्वे तव राजपुत्रि भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसि देवनेन ।
अवाच्या वै पतिषु कामवृत्ति- र्नित्यं दास्ये विदितं तत्तवास्तु ॥
पराजितो नकुलो भीमसेनो युधिष्ठरः सहदेवार्जुनौ च ।
दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति ॥
प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थटः ।
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद््ग्लहेषु ॥
वैशम्पायन उवाच ॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽर्तरूपः ।
राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥
भीम उवाच ॥
नाहं कुप्ये सूतपुत्रस्य राज- न्नेष सत्यं दासधर्मः प्रदिष्टः ।
किं विद्विषो वै मामेवं व्याहरेयु- र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥
वैशम्पायन उवाच ॥
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा ।
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम् ॥
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे ॥
एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम् ।
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥
कदलीदण्डसदृशं सर्वलक्षणसंयुतम् ।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते ।
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥
वैशम्पायन उवाच ॥
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः ।
वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः ॥
विदुर उवाच ॥
परं भयं पश्यत भीमसेना- त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः ।
दैवेरितो नूनमयं पुरस्ता- त्परोऽनयो भरतेषूदपादि ॥
अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम् ।
योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत् ।
इमां चेत्पूर्वं कितवोऽग्लहिष्य- दीशोऽभविष्यदपराजितात्मा ॥
स्वप्ने यथैतद्विजितं धनं स्या- देवं मन्ये यस्य दीव्यत्यनीशः ।
गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात ॥
दुर्योधन उवाच ॥
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव ।
युधिष्ठिरं ते प्रवदन्त्वनीश- मथो दास्यान्मोक्षसे याज्ञसेनि ॥
अर्जुन उवाच ॥
ईशो राजा पूर्वमासीद््ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा ।
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥
`कर्ण उवाच ॥
दुश्शासन निबोधेदं वचनं वै प्रभाषितम् । किमनेन चिरं वीर नयस्व द्रपदात्मजाम् ।
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥
वैशम्पायन उवाच ॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात् । प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥ ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ॥
द्रौपद्युवाच ।
परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप ।
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल ॥
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् । गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि ।
पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् ।
क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम् ॥
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत् ।
हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥
न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् । न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥ धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥
विदुर उवाच ॥
शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किञ्चिदपि ब्रुवन्ति ।
सा त्वं प्रियार्थं शृणु वाक्यमेत- द्यदुच्यते पापमतिः कृतघ्नः ॥
सुयोधनः सानुचरः सुदुष्टः सहैव राजा निकृतः सूनुना च
यद्येष वाचं महदुच्यमानां न श्रोष्यते पापमतिः सुदुष्टः ॥
वैशम्पायन उवाच ॥
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम् ।
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥
विदुर उवाच ॥
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम् । अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः ।
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च ।
तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥
वैशम्पायन उवाच ॥
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् ।
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः ।
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम् ।
वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलनान्स मानी ।
राजानुजः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि ।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥
वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः ।
दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥
अर्जुन उवाच ॥
भीमसेन न ते सन्ति येषां वैरं त्वया सह ।
नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम् ॥
नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥
असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् ।
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः । ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।
तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥
वैशम्पायन उवाच ॥
उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् ।
क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥
सहदेव उवाच ॥
यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर ।
नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः ॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः ।
यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥
वैशम्पायन उवाच ॥
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥
नकुल उवाच ॥
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान् ।
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् ।
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा ॥
द्रौपद्युवाच ॥
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे ।
तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् ।
तस्मादुधिरमेवास्य पास्यते वै वृकोदरः ॥
इमं च पापिष्ठमतिं कर्णं समुतबान्धवम् ।
सामात्यं सपरीवारं हनिष्यति धनञ्जयः ॥
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् ।
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥
वैशम्पायन उवाच ॥
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया ।
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम् ॥
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः ।
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

2-92-13 द्रौपदीपणनात् प्रागिति शेषः । अतो द्रौपदी न दासभावमापन्नेति भावः ॥ 2-92-16 पश्यसितः पाशबद्धः ॥ 2-92-33 स्रोतोभ्यः रोमकूपेभ्यः ॥