अध्यायः 098

निजनगरं गच्छतो युधिष्ठिरस्य मध्येमार्गं दूताह्वानेन पुनर्निवृत्त्य द्यूत सभाप्रवेशः ॥ 1 ॥ अनुद्यूतेपि युधिष्ठिरस्य शकुनिना पराजयः ॥ 2 ॥

वैशम्पायन उवाच ॥

ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर ।
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः ॥
युधिष्ठिर उवाच ॥
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् ।
न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि ॥
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥
वैशम्पायन उवाच ॥
असम्भवो हेममयस्य जन्तो- स्तथापि रामो लुलुभे मृगाय ।
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति ॥
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।
जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥
विविशुस्ते सभां तां तु पुनरेव महारथाः ।
व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः ॥
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥
शकुनिरुवाच ॥
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ ॥
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः ।
प्रविशेम महारण्यं रौरवाजिनवाससः ॥
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान् ।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥
त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः ॥
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर ।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा ।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि ॥
सभ्या ऊचुः ।
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ ॥
वैशम्पायन उवाच ॥
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः ।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः ॥
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन् ॥
युधिष्ठिर उवाच ॥
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥
शकुनिरुवाच ॥
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम् ।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः ॥
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः ।
यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा ।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः ।
समुत्क्षेपेण चैकेन वनवासाय भारत ॥
` वैशम्पायन उवाच ॥
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः ।
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता ॥
युयुत्सुना कृपेणाथ सञ्जयेन च भारत ।
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा ॥
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा ।
सोमदत्तेन च तथा बाह्लीकेन च धीमता ॥
वार्यमाणोपि सततं न च राजन्नियच्छति ।
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया ॥
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत् ।
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत ॥
एवं भवत्विति तदा वनवासाय दीव्यति' ।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ॥
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

2-98-16 संवेगादतिशयात् ॥