अध्यायः 100

युधिष्ठिरेण वनगमनाय भीष्माद्यामन्त्रणम् ॥ 1 ॥ पाण्डवान्प्रति विदुरवचनम् ॥ 2 ॥

युधिष्ठिर उवाच ॥

आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ॥
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च । विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ 2-100-3a`सौमदत्तिं महावीर्यं विकर्णं च महामतिम्' । युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ॥ 2-100-4a`गान्धारीं च महाभागां मातरं च तथा पृथाम्' । सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः ॥
वैशम्पायन उवाच ॥
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम् ।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥
विदुर उवाच ॥
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि ।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥
पाण्डवा ऊचुः ।
तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः ॥
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः ।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते ॥
विदुर उवाच ॥
युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये ॥
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः ।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः ।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः ।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह ॥
एष वै सर्वकल्याणः समाधिस्तव भारत ।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत ॥
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा ।
द्वैपायनेन कृष्णेन नगरे वारणावते ॥
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना ।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति ॥
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः ।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः ॥
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव ॥
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया ।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ॥
तथा विसर्गे कौबेरे वारुणे कोपविधारणे ॥
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ॥
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम् ॥
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् ।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ॥
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ॥
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम् ॥
वैशम्पायन उवाच ॥
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यातपर्वणि शततमोऽध्यायः ॥ 100 ॥

2-100-14 समाधिर्मनः स्वास्थ्यकरो नियमः ॥ 2-100-19 विधारणे नियमने ॥ 2-100-20 विसर्गे दाने । संयमे वशीकरणे । उपजीवनं जीवनहेतुत्वम् ॥