अध्यायः 013
मन्त्रिभिः सह संमन्त्र्य कृतराजसूयकरणनिश्चयस्य युधिष्ठिरस्य
श्रीकृष्णम्प ्रति दूतप्रेषणम् ॥ 1 ॥ दूतेन सह इन्द्रप्रस्थमागतं
श्रीकृष्णम्प्रति युधिष्ठिरोक्ति ॥ 2 ॥
वैशम्पायन उवाच ॥
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः ।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत ॥
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम् ।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः ।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः ।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा ।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत् ॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन् ।
किं हितं सर्वलोकानां भवेदिति मनो दधे ॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः ।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ ।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम् ॥
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः ।
न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता ॥
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात् ।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः ॥
`बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः' ।
धीमतः सहदेवस्य धर्माणामनुशासनात् ॥
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः ।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा ॥
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा ।
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ॥
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा ।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम् ॥
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे ।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम् ॥
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम् ।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम् ॥
अभिहर्तुं नृपाः षट््सु पृथक््जात्यैश्च नैगमैः ।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे ॥
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः ।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट् ॥
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः ।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा ।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः ।
राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा ।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति ।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति ॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन ।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा ।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः ॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् ।
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् ।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि ॥
अविचार्य महाराज राजसूये मनः कुरु ।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ॥
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते ।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा ॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् ।
`स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे ॥
वैशम्पायन उवाच ॥
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम् ।
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे ॥
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम् ।
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः ॥
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् ' ।
पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥
स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः ।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः ॥
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित् ।
`विराटद्रुपदाभ्यां च सात्यकेन च धीमता ॥
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता ।
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः ॥
युधिष्ठिर उवाच' ॥
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः ।
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत् ॥
वैशम्पायन उवाच ।
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन ।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम् ॥
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा ॥
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ।
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान् ॥
भूयो विममृशे पार्थो लोकानां हितकाम्यया ।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ ॥
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति ।
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात् ॥
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ॥
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु ॥
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः ।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् ॥
न स किञ्चिन्न विषहेदिति कृष्णममन्यत ।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ॥
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ।
` स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ॥
दूत उवाच ॥
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह ।
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः ॥
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः ॥
वैशम्पायन उवाच ॥
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली' ।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः ॥
`आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः' ।
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा ।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः ॥
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ।
स गृहे पितृवद्धात्रा धर्मराजेन पूजितः ॥
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा ॥
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः ।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् ।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम् ॥
युधिष्ठिर उवाच ॥
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया ।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः ॥
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते ।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे ।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥
केचिद्धि सौहृदा देवे न दोषं परिचक्षते ।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् ।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च ।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥
2-13-13 वार्धुषी वृद्ध्युपजीविका । यज्ञसत्वानि कतूना
सामर्थ्यानि सद्यः पुष्कलफलप् रदत्वादिविषयाणि ॥ 2-13-14 अनुकर्ष
दारिद्र्याद्राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन धारणम् । निष्कर्ष करार्थं
प्रजापीडनम् । अवर्षणं चातिवर्षं इति क. पाठः । मूर्छनं वृद्धिः ॥ 2-13-17
नैगमैर्वणिग्भिः सह आसन्निति शेवः । इतरे नृपा विणिग्वद्येन करदीकृता इत्यर् थः ।
तत्र तस्मिन् विषयोदेशः ॥ 2-13-18
लोभजैर्विमोहोत्थैराजसरैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि ववृधे वृद्ध
िमानभूत् ॥ 2-13-22 येन कारेण वारुणं गुणं वृद्धिं । तेन कारणेना ॥ 2-13-52
भ्रात्रा पितृष्वसृजेन ॥ 2-13-54 क्षणिनं सावसरम् । कल्पं समर्थम् ॥