अध्यायः 014

जरासन्धशौर्यकथनादिरूपं श्रीकृष्णवाक्यम् ॥

कृष्ण उवाच ॥

सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ॥
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप ।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ ॥
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि ॥
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः ।
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान् ।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम् ॥
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।
इदानीमेव वै राजञ्जरासन्धो महीपतिः ॥
अभिभूय श्रियं तेषां कुलानामभिषेचितः ।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः ॥
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत ।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत् ॥
स साम्राज्यं महाराज प्राप्तो भवति योगतः ।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः ॥
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ।
तमेव च महाराज शिष्यवत्समुपस्थितः ॥
वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ॥
जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ । वक्रदन्तः करूषस्य करभो मेघवाहनः ।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः ॥
मरुं च नरकं चैव शास्ति यो यवनाधिपः ।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥
भगदत्तो महाराज वृद्धस्तव पितुः सखा ।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः ॥
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि ।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः ॥
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः ॥
जरासन्धं गतस्त्वेव पुरा यो न मया हतः ।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः ॥
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः ॥
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली ।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान् ॥
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत् ।
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः ।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः ।
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः ॥
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो ।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः ॥
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह ॥
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह ।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः ॥
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥
तथैव सर्वपञ्चाला जरासन्धभायर्दिताः ।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ॥
` अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः ।
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् ॥
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्' ।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले ।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः ॥
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना ॥
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता ।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा ॥
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।
हतौ कंससुनामानौ मया रामेण चाप्युत ॥
`हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः ।
मया रामेण चान्यत्र ज्ञातयः परिपालितः' ॥
भये तु समतिक्रान्ते जरासन्धे समुद्यते ।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः ।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ ।
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ ॥
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥
`अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः ।
दत्ता न च हतो राजञ्जरासन्धो महाबलः' ॥
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे ॥
हतो हंस इति प्रोक्तस्य केनापि भारत ।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।
इत्येतां मतिमास्थाय डिबिको निधनं गतः ॥
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः ।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत ॥
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ ।
पुरं शून्येन मनसा प्रययौ भरतर्षभ ॥
ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे ।
पुनरान्दिनः सर्वे मधुरायां वसामहे ॥
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना । कंसभार्या जरासन्धं दुहिता मागधं नृपम् ।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ॥
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम ।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ॥
संस्मरन्तो विमनसो व्यपयाता नराधिप ।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम् ॥
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः ।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ॥
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप ॥
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः ॥
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च ॥
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः ॥
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः ।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि ॥
योजनान्ते शतद्वारं वीरविक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥
अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले ।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः ॥
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च ॥
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः ॥
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः ।
`प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ ॥
निशठश्च गदश्चैव सप्त चैते महारथाः ।
विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः ॥
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः ।
प्रसेनजिच्च यमलो राजराजगुणान्वितः ॥
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु ।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥
वज्रसंहनना वीरी वीर्यवन्तो महाबलाः ।
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः ॥
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप ।
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते ॥
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ।
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम् ॥
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम् ।
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च ॥
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम् ।
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः ॥
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा ।
योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः' ॥
न तु शक्यं जरासन्धे जीवमाने महाबल राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम ॥
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः ॥
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः । `अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः' ।
महादेवं महात्मानमुमापतिमरिन्दम ॥
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः ।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम ॥
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥
वयं चैव महाराज जरासन्धभयात्तदा ।
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम् ॥
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि ।
यतस्व तेषां मोक्षाय जरासन्धवधाय च ॥
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन ।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

2-14-4 भुवि ये श्रेणिबद्धा राजानः येचान्ये क्षत्रियाः तान् इक्ष्वाकुवंशस्य प्रकृ ति प्रजां परिचक्षते ॥ 2-14-56 माधवाः मधुवश्याः ॥