अध्यायः 017

युधिष्ठिरेण जरासन्धप्रभावप्रश्ने श्रीकृष्णेन तदुपोद्घाततया बृहद्रथराजोपा ख्यानकथनारम्भः ॥ 1 ॥ अपुत्रस्य बृहथस्य पत्नीभ्यां सह तपोवनगमनम् ॥ 2 ॥ तत्र चण्डकौशिकमुनिना बृहद्रथाय पुत्रीयाम्रफलदानम् ॥ 3 ॥ प्रविभक्ततत्फलभोजनेन सञ्जातगर्भयोस्तद्भार्ययोः पृथगेकैकशरीरखण्डसम्भवः ॥ 4 ॥ तत्पत्नीभ्यां दासीद्वारा बहिस्त्याजितयोः खण्डयोः जरानाम्न्या राक्षस्या स न्धानाजरासन्धसम्भवः ॥ 5 ॥ बालकं गृहीत्वा आगतया जरया सह बृहद्रथस्य संवादः ॥ 6 ॥

वासुदेव उवाच ॥

जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा ।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम ॥
एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥
सुनयस्यानपायस्य संयोगे परमः क्रमः ।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ॥
अनयस्यानुपायस्य संयुगे परमः क्षयटः ।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ॥
ते वयं नयमास्थाय शत्रुदेशसमीपगाः ।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह ।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् ।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे ॥
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः ।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये ॥
अथवैनं निहत्याजौ शेषेणापि समाहताः ।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥
युधिष्ठिर उवाच ॥
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः ।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा ॥
कृष्ण उवाच ॥
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः ।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिर्बली ॥
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः ।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः ॥
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः ।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥
`स्वराज्यं कारयामास मगधेषु गिरिव्रजे' । तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम ।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥
स काशिराजस्य सुते यमजे भरतर्षभः । उपयेमे महावीर्यो रूपद्रविणसंयुते । 2-17-17cतयोश्चकार समयं मिथः स पुरुषर्षभः ॥
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा ।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः ॥
प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः ।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ॥
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ।
विषयेषु निमग्रस्य तस्य यौवनमत्यगात् ॥
न च वंशकरः पुत्रस्तस्याजायत कश्चन ।
मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः ॥
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ।
स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम् ॥
`राज्यं चापि परित्यज्य तपोवनमथाश्रयत् । ' वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते' ॥
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ॥
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम् ॥
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम् ।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत् ॥
`बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत । ' उपविष्टः स तेनाथ अनुज्ञातो महात्मना ॥
तमपृच्छत्तदा विप्रः किमागमनमित्यथ ।
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च ॥
स उवाच मुनिं राजा भगवन्नास्ति मे सुतः ।
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम् ॥
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने । नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत् ।
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः ॥
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत ॥
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा ॥
राजोवाच ॥
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥
कृष्ण उवाच ।
एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः ।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत ॥
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।
अवानमशुकादष्टमेकमाम्रफलं किल ॥
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम् ॥
उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप ॥
`एष ते तनयो राजन्मा तपेह तपोवने ।
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम् ॥
यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना ।
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज ॥
अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव ।
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः ॥
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम् ।
तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम् ॥
अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप ।
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप' ॥
अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः ।
पौरैरनुगतश्चापि विवेश स्वपुरं ततः ॥
यथासमयमाज्ञाय तदा स नृपसत्तमः ।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥
मुनेश्च बहुमानेन कालस्य च विपर्ययात् । ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।
तयोः समभवद्गर्भः फलप्राशनसम्भवः ।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह ॥
अथ काले महाप्राज्ञ यथासमयमागते ।
प्रजायेतामुभे राजञ्शरीरशकले तदा ॥
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे ।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम् ॥
उद्विग्रे सह संमन्त्र्य ते भगित्यौ तदाऽबले ।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे ।
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः ॥
`दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा ।
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे ॥
ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा ।
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक्' ॥
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।
जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥
कर्तुकामा सुखवहे शकले सा तु राक्षसी ।
संयोजयामास तदा विधानबलचोदिता ॥
ते समानीतमात्रे तु शकले पुरुषर्षभ ।
एकमूर्तिधरो वीरः कुमारः समपद्यत ॥
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोदुं वज्रसारमयं शिशुम् ॥
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः ॥
तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः ।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥
ते चाबले परिम्लाने पयः पूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाब्यगच्छताम् ॥
ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।
तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः ॥
सा तं बालमुपादाय मेघलेखेन भास्करम् ।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् ॥
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम् । तव पत्नीद्वये जातो द्विजातिवरशासनात् ।
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः ॥
कृष्ण उवाच ।
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम् ॥
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ॥
कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

2-17-4 क्रमः उपक्रमः ॥ 2-17-9 तत्क्षये बलक्षयः इति पाठः ॥ 2-17-34 अवानमशुष्कं सरसमिति यावत् । अमारुतमनाविद्धं इति घ.पाठः ॥ 2-17-46 प्रजायेतां सुषुवतुः ॥ 2-17-47 स्फिक् कट्या अधोभागः ॥ 2-17-53 सुखवहे एकीकृतयोर्वहनं हि सुखेन भवतीति प्रसिद्धम् ॥ 2-17-54 समानीतमात्रे संयोजितमात्रे ॥ 2-17-64 अराक्षसी वेषतः ॥