अध्यायः 021

जरासन्धसमीपं गतानां श्रीकृष्णभीमार्जुनानां जरासन्धेन सह विवादः ॥ 1 ॥

वासुदेव उवाच ॥

एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान् ।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥
वैहारो विपुलः शैलो वाराहो वृषभस्तथा ।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः ।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः ।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥
`यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः' । शूद्रायां गौतमो यत्र महात्मा संशितव्रतः ।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः ॥
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि । भजते मागधं वंशं स नृपाणामनुग्रहः ।
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः ।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥
वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः ।
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः ॥
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ ।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥
अपारिहार्या मेघानां मागधा मनुना कृताः ।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम् ॥
`पाण्डरे विपुले चैव तथा वाराहकेऽपि च ।
चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये ॥
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः ।
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम् ॥
वृषभस्य तमालस्य महावीर्यस्य वै तथा ।
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः ॥
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः । पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः ।
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्' ॥
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः ॥
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते ॥
वयमासादने तस्य दर्पमद्य हरेम हि ।
वैशम्पायन उवाच ।
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ॥
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम् ।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम् ॥
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम् ।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ॥
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन् ॥
यत्र मांसादमृषभमाससाद बृहद्रथः ।
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत् ॥
स्वपुरे स्थापयामास तेन चानह्य चर्मणा ।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन् ।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा ॥
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन् ।
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः ॥
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम् ।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम् ॥
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन् ।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा ॥
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः ।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन् ॥
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः । ततस्तच्छान्तये राजा जरासन्धः प्रतापवान् ।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत् ॥
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः ।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत ॥
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् ।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम् ॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः । राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः ।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः ॥
`कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे ।
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः' ॥
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः ॥
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः ॥
अशोभन्त महाराज बाहवो युद्धशालिनाम् ।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान् ॥
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत ।
`अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्' ॥
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः ।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः ॥
`भो शब्देनैव राजानमुचुस्ते तु महारथाः' । तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान् ।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ॥
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः ।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय ॥
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत् ।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः ॥
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः । यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः ।
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः ।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः ।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः ।
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा ॥
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः ।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः ।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम् ॥
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान् ।
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः ।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥
तानुवाच जरासन्धः सत्यसन्धो नराधिपः ।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान् ॥
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः ॥
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः ॥
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ।
एवं विरागवसना बहिर्माल्यानुलेपनाः ॥
` क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः' ॥
सत्यं वदत के यूयं सत्यं राजसु शोभते ॥
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि ।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात् ॥
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ।
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम् ॥
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम् ।
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे ॥
वैशम्पायन उवाच ।
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः ।
स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः ॥
कृष्ण उवाच ।
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप ।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ॥
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति ॥
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् ॥
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम् ॥
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत् ।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः ॥
अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान् ।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः ॥
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् ।
प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥