अध्यायः 022
कृष्णजरासन्धयोर्विवादानन्तरं जरासन्धस्य युद्धोद्यमः ॥ 1 ॥
जरासन्ध उवाच ।
न स्मरामि कदा वैरं कृतं युष्माभिरित्युत ।
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥
वैकृते वा सति कथं मन्यध्वं मामनागसम् ।
अरिं वै ब्रूत हे विप्राः सतां समय एष हि ॥
अर्थधर्मोपघाताद्धि मनः समुपतप्यते ।
योऽनागसि प्रसजति क्षत्रियो हि न संशयटः ॥
अतोऽन्यथा चरँल्लोके धर्मज्ञः सन्महारथः ।
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥
त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम् ।
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः ॥
तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः ।
अनागसं प्रजानां च प्रमादादिव जल्पथ ॥
कृष्ण उवाच ।
कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः ।
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि ॥
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम् ॥
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि ॥
अस्मांस्तदेनोपगच्छेत्कृतं बार्हद्रथ त्वया ।
वयं हिं शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥
`तस्मादद्योपगच्छामस्तव बार्हद्रथान्तिकम्' ।
मनुष्याणां समालम्भो न च दृष्टः कदाचन ।
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ॥
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि ।
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः ॥
यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः ।
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात् ॥
ते त्वां ज्ञातिक्षयकरं यममार्तानुसारिणः ।
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः ॥
नास्ति लोके पुमानन्यः क्षत्रियोष्विति चैव तत् ।
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥
को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप ।
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ ॥
स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः ।
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान् ॥
एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः ।
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥
स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव ।
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः ॥
माऽवमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।
समं चेजस्त्वया चैव विशिष्टं वा नरेश्वर ॥
यावदेतदसम्बुद्धं तावदेव भवेत्तव ।
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध ।
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।
श्रेयसो ह्यवमत्येह विनेशुः सबला नृपाः ॥
युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम् ।
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ।
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम् ॥
त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध ।
मुच्छ वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम् ॥
` वैशम्पायन उवाच ॥
एतच्छ्रुत्वा जरासन्धः क्रुद्धो वचनमब्रवीत् ॥
नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः ।
नरको नेन्द्रतपनो न केशी न च पूतना ॥
न कालयवनो वाऽपि ये त्वया निहता युधि ।
त्वं तु गोपकुलोत्पन्नो जातिं वै पौर्विकीं स्मर ॥
योऽस्मद्भयादतिक्रम्य सागरानूपमाश्रितः ।
जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा ॥
सोऽधुना कत्थसे शौरे शरदीव यथा घनः ।
अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः ॥
जामातुरौग्रसेनस्य त्वां निहत्याद्य माधव ।
चिरकाङ्क्षितो मे सङ्ग्रामस्त्वां हन्तुं समुहृद्गुणम् ॥
दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः ।
क्लीबाविमौ च गोविन्द भीमसेनार्जुनावुभौ ॥
हिंस्यासि युधि विक्रम्य सिंहः क्षुद्रमृगाविव ।
वैशम्पायन उवाच ॥
तस्य रोषाभिभूतस्य जरासन्धस्य गर्जतः ॥
सर्वभूतानि वित्रेमुषे तत्रासन्समागताः ।
श्रीभगवानुवाच ॥
किं गर्जसि जरासन्ध कर्मणा तत्समाचर ॥
मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम ।
समात्यं ससुतं चाद्य घातयिष्याम्यहं रणे ।
न कथञ्चन जीवन्वै प्रवेक्ष्यसि पुरोत्तमम्' ॥
जरासन्ध उवाच ।
नाजितान्वै नरपतीनहमादद्मि काश्चन ।
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः ॥
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।
विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥
देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात् ।
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् ॥
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा ॥
वैशम्पाय उवाच ।
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् ।
अज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः ॥
स तु सेनापतिं राजा सस्मार भरतर्षभ ।
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥
ययोस्ते नामनी राजन्हंसेति डिबिकेति च ।
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ॥
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम् ॥
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् ।
भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः ॥
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः ।
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि द्वाविंशोऽध्यायः ॥ 2 ॥
2-22-45 मधुभिर्यादवैः । ष्टं वध्य मत्वा तदाच्युतः इति पाठः ॥