अध्यायः 024
भीमजरासन्धयोः स्वस्त्ययनपूर्वकं युद्धारम्भः ॥ 1 ॥ श्रीकृष्णप्रोत्साहितस्य भीमस्य जरासन्धवधोद्यमः ॥ 2 ॥
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः ।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः ।
अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः ।
जरासन्धस्ततो राजा भीमसेनेन मागधः ॥
`धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः ।
अर्जुन वासुदेवं च वजर्यित्वा स मागधः ॥
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह' ।
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च ॥
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च ।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना ।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् ॥
अवमुच्य किरीटं स केशान्समनुमृज्य च ।
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥
उवाच मतिमान्राजा भीमं भीमपराक्रमः ।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः ।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः ॥
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली ।
भीमसेनो जरासन्धमाससाद युयुत्सया ॥
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् ।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः ॥
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः ।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः ।
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम् ॥
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् ॥
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव ।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ॥
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ ।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम् ॥
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि ।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः ॥
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् ॥
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः ।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः ॥
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् ।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् ॥
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः ।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः ॥
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः ।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम् ॥
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा ।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव ॥
उभौ परमसंहृष्टौ बलेन बलिनां वरौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥
` शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ ।
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव' ॥
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः ।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः ॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥
`ततो भीमं जरासन्धो जघानोरसि मुष्टिना ।
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह' ॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जोतामायसैः परिघैरिव ॥
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।
तदा तद्युद्धमभवद्दिनानि दश पञ्च च ।
अनाहारं दिवारात्रमविश्रान्तमवर्तत ॥
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः ।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः ।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे ।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः ।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥
वैशम्पायन उवाच ।
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा ।
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥
ततस्तमजितं जेतुं जरासन्दं वृकोदरः ।
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥
2-24-6 निर्वृतीर्वेदनानि च दुःखमूर्छयोः काले सुखसञ्ज्ञाकराणि ॥ 2-24-13 कक्षैः दोर्मूलैः ॥ 2-24-16 ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडने पूर्णकुम्भः ॥ 2-24-20 तक्षवन्तौ ग्रात्रसङ्कोचवन्तौ ॥