अध्यायः 025

जरासन्धवधः ॥ 1 ॥ जरासन्धेन बन्धीकृतानां राज्ञां कृष्णेन मोचनम् ॥ 2 ॥ मोचितै राजभिः कृष्णाय रत्नादिदानम् ॥ 3 ॥ कृष्णानुज्ञया जरासन्धपुत्रेण सहदेवेन पितुरौर्ध्वदैहिककरणम् ॥ 4 ॥ सहदेवं राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थगमनम् ॥ 5 ॥ जरासन्धवधश्रवणहृष्टेन युधिष्ठिरेण पूजितस्य कृष्णस्य द्वारकागमनम् ॥ 6 ॥

वैशम्पायन उवाच ।

भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् ।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया ॥
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् ।
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव ॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् ।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः ।
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै ॥
`तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः ।
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते ॥
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः ।
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात् ॥
तदस्य मृत्युर्विहितस्त्वदृते न महाबल ।
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम् ॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम् ।
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्' ॥
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः ।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः ॥
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ ।
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च ॥
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः ।
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ॥
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ।
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ॥
भीमसेनस्य नादेन जरासन्धस्य चैव ह ।
किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही ॥
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात् ।
`ततस्तु भगवान्कृष्णो जरासन्धजिघांसया ॥
भीमसेनं समालोक्य नलं जग्राह पाणिना ।
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति ॥
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः ।
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च ॥
पुनः सन्धाय तु तदा जरान्धः प्रतापवान् ।
भीमेन च समागम्य बाहुयुद्धं चकार ह ॥
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सर्वलोकक्षयकरं सर्वभूतभयावहम् ॥
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः ।
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया ॥
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम् ।
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह ॥
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः ।
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ' ॥
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् ।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः ॥
जरासन्धरथं कृष्णो योजयित्वा पताकिनम् ।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः ।
राजानं चक्ररासाद्य मोक्षिता महतो भयात् ॥
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः ।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः ।
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः ॥
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये ।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ॥
`एवमेतौ महाबाहू तदा दुष्करकारिणौ ।
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति ॥
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः ।
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः' ॥
तप्तचामीकराभेण किङ्किणीजालमालिना ।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥
येन शक्रो दानवानां जघान नवतीर्नव ।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः ॥
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः ।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः ॥
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः ॥
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते ।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः ॥
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम् ।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम् ॥
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः ।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः ॥
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् ।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः ॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् ॥
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् ।
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै ॥
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे ।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन ॥
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान् ।
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम् ॥
वैशम्पायन उवाच ॥
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः ।
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति ॥
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ॥
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम ।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम् ॥
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥
जरासन्धात्मजश्चैव सहदेवो महामनाः ।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः ।
सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा ।
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः ॥
`सददेव उवाच ।
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन ।
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम ॥
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो ।
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन ॥
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात् ।
निर्भयो विचरिष्यामि यथाकामं यथासुखम् ॥
वैशम्पायन उवाच ।
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष ।
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ ॥
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन् ।
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः ॥
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत ।
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा ॥
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि ।
घृतधाराशतैश्चैव सुमनोभिश्च भारत ॥
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम् ।
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः ॥
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः ।
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ।
सहदेव उवाच ।
इमे रत्नानि भूरिणी गोजाविमहिषादयः ॥
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च ।
दीयतां धर्मराजाय यथा वा मन्यते भवान् ॥
वैशम्पायन उवाच ।
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा ।
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः ॥
मागधानां महीपालं जरासन्धात्मजं तदा ।
आददे च महार्हाणि रत्नानि पुरुषोत्तमः ॥
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः ।
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम् ॥
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः ।
यथावयः समागम्य विससर्ज नराधिपान् ॥
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः । आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः ।
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः ।
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा ॥
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा ।
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः' ॥
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः ।
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः ॥
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः ।
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः ।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् ।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥
`हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत ।
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः ॥
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान् ।
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः ॥
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन ।
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम ॥
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः ॥
वैशम्पायन उवाच ।
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः ॥
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम् ॥
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः ।
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः' ॥
यथावयः समागम्य भ्रातृभिः सह पाण्डवः ।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः ।
पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः ।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा ।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥
`पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः । हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः ।
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्' ॥
तेनैव रथमुख्येन मनसस्तुल्यगामिना ।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥
ततो गते भगवति कृष्णे देवकिनन्दने ।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा ॥
संवर्धितं यशो भूयः कर्मणा तेन भारत ।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

2-25-5 अवाप्यते प्राप्तः ॥ 2-25-8 एवमुक्तस्तदा भीभो जरासन्धमिति झ. पाठः ॥ 2-25-15 नलं इरिणनामकं तृणविशेषम् ॥ 2-25-22 कुलद्वारि गृहद्वारि ॥ 2-25-35 असङ्गो रथस्पर्शहीनः ॥