अध्यायः 026

युधिष्ठिराज्ञया दिग्विजयार्थं निर्गतानामर्जुनादीनां सङ्क्षेपेण दिग्विजयक थनम् ॥

वैशम्पायन उवाच ।

`ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः । धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः ।
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः ।
संविवर्तयिषुः कामं पावकात्पाकशासनिः' ॥
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥
अर्जुन उवाच ।
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम् ।
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥
विजयाय प्रयास्यामि दिशं धनदपालिताम् ।
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते ॥
वैशम्पायन उवाच ।
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत ॥
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ ।
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि ।
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ॥
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ।
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ॥
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः ।
दिशं धनपतेरिष्टामजयत्पाकशासनिः ॥
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ।
प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित् ॥
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः ।
आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

2-26-13 खाण्डवप्रस्थं खाण्डवदाहेन ख्यापितस्थानम् ॥ 13 ॥