अध्यायः 046
अर्जुनस्य पाशुपतास्त्रलाभस्वर्लोकगमनादिश्रवणेन परिखिद्यता
धृतराष्ट्रेण संजयाग्रे स्वपुत्रान्प्रति परिशोचनम् ॥ 1 ॥
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः ।
धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत् ॥
वैशंपायन उवाच ।
शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः ।
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस् धीमतः ।
कच्चित्तवापि विदितं याथातथ्येन सारथे ॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः ।
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् ।
नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशंगताः ।
येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम् ॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।
अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि ॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे ।
महान्स्यात्संशयोलोके न तु पश्यामि नो जयम् ॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम् ।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः ।
वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा ॥
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते ।
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् ।
जिगा पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि संजय ।
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना ॥
यथा हि किरणा भानोस्तपन्तीह चराचरम् ।
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान् ॥
अपि तद्रथघोषेण भयार्था सव्यसाचिनः ।
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥
समुद्धरन्प्रवपंश्चैव बाणान्
स्ताताऽऽततायी समरे किरीटि ।
सृष्टोऽन्तकः सर्वहरो विधात्रा
भवेद्यथा तद्वदवारणीयः ॥
संजय उवाच ।
यदतत्कथितं राजंस्त्वया दुर्योधनं प्रति ।
सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते ॥
मन्युना हि समाविष्टाः पाण्डवास्त्वमितौजसः ।
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीं ॥
दुःशासनस्य ता वाचः श्रुत्वा वै कटुकोदयाः ।
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥
श्रुतं हि ते महाराज यथा पार्थेन संयुगे ।
एकादशतनुः स्थाणुर्धेनुषा परितोषितः ॥
कैरातं वेषमास्थाय योधयामास फल्गुनम् ।
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥
`लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः ।'
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् ।
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥
नैतदुत्सहते चान्यो लब्धुमन्यत्र फल्गुनात् ।
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् ।
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान् ॥
आसादितमिदं घोरं तुमुलं रोमहर्षणम् ।
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥
यत्र विस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत् ।
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥
ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया ।
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥
सर्वे प्रहरतां श्रेष्ठाः सर्वेचामिततेजसः ।
सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे ।
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥
धृतराष्ट्र उवाच ।
किं कृतं सूत कर्णेन वदता परुषं वचः ।
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः ।
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥
ममापि वचनं सूत न शुश्रूषति मन्दभाक् ।
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम् ॥
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः ।
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा ।
निर्दहेयुर्मम सुतान्किंपुनर्मन्युनेरिताः ॥
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः ।
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः ।
हनिस्त्रैलोक्यनाथः स किंनु तस् न निर्जितम् ॥
इदं हि सुमहच्चित्रमर्जुनस्येह संजय ।
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा ।
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥
सर्वथा न हि मे पुत्राः सहामात्याः सबान्धवाः ।
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
3-46-5 ऋताः सत्याः ॥ 3-46-9 प्रतीयातां प्रतिगच्छेताम् ॥ 3-46-10 धृणी दयालुः । प्रमादी अनवहितः । संरम्भी उद्यमी ॥ 3-46-18 प्रवपन्
प्रेरयन् । स्थाता स्थास्यति ॥ 3-46-25 नैतदुत्पत्स्यतेऽन्यो हि इति क. ध. पाठः ॥ 3-46-26 न जीर्णो न क्षीणः ॥ 3-46-31 अन्तं नाशम् । भार्यामर्षसमन्विताः इति
झ. पाठः ॥ 3-46-33 विनये नीतौ ॥ 3-46-41 नहि सन्तीति शेषः ॥