अध्यायः 050

दमयनत्यां समुत्कण्ठितेन नलंन वने विहरत्सु हंसेष्वेकतमस्य ग्रहणम् ॥ 1 ॥ प्रतिक्रियाप्रतिज्ञानेन आत्मानं मोचितवता हंसेन नलगुणानुवर्णनेन दमयन्त्या नले रागोत्पादनम् ॥ 2 ॥

बृहदश्व उवाच ।
आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥
`यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः' । अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥
ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः ।
रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः ।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।
महिष्या सह राजेनद््र सत्कारेण सुवर्चसम् ॥
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥
अथ तां वसि प्राप्ते दासीनां समलंकृतम् ।
शतं सखीनां च तदा पर्युपास्ते शचीमिव ॥
तत्र स्म राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥
अतीव रूपसंपन्ना श्रीरिवायतलोचना ।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् ।
अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः ॥
अशक्नवन्नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥
ततो ।डन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम् ॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥
`तव चैव यथा भार्या भविष्यति तथाऽनघ । विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥'
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥
अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥
दमयन्ती तु यं हंसं समुपाधावदन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥
दमयन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ।] तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि ।
सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे ॥
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥
एवमुक्ता तु हंसेन दमयन्ती विशांपते ।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते । पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

3-50-1 उपपन्नो युक्तः ॥ 3-50-12 सौदामनी प्रावृषेण्यमेघसंबन्धिनी ॥ 3-50-15 मूर्तिमान् शरीरी ॥ 3-50-16 प्रशशंसुः वार्ताहरा इति शेषः ॥ 3-50-17 हृच्छयः कामः ॥ 3-50-19 जातरूपपरिच्छदान् सुवर्णपक्षान् ॥ 3-50-20 अन्तरिक्षगः खगः ॥ 3-50-24 गरुत्मन्तः पक्षिणः ॥