अध्यायः 051
नारदेनन्द्रादीन्प्रति दमयन्तीगुणानुवर्णनपूर्वकं
तस्स्वयंवरप्रवृत्तिकथनम् ॥ 1 ॥ तत्स्वयंवरार्थमागच्छद्भिरिन्द्रादिभिः पथि
दृष्टस्य नलस्य दमयन्तीघटनायां दूत्येन वरणम् ॥ 2 ॥
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा ॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा ।
बभूवदमयन्ती तु निःश्वासपरमा तदा ॥
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना ॥
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
न नक्तं न दिवा शेते हाहेति रुदती मुहुः ॥
तामस्वस्थां तदाकारां सख्यस्ता जज्ञिरिङ्गितैः ॥
ततो विदर्भपतये दमयन्त्याः सखीजनः ।
न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः ॥
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् ।
किमर्थं दुहिता मेऽद्यनातिस्वस्थेव लक्ष्यते ॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम् ॥
स सन्निपातयामास महीपालान्विशांपतिः ।
एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो ॥
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।
अभिजग्मुस्ततो वीरा राजानो भीमशासनात् ॥
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् ।
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् ।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः ॥
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ ।
अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ ।
देवराजस् भवनं विविशाते सुपूजितौ ॥
तावर्चयित्वा मघवा ततः कुशलमव्ययम् ।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥
नारद उवाच ।
आवयोः कशलं देव सर्वत्रगतमीश्वर ।
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥
बृहदश्व उवाच ।
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा ।
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥
शस्त्रेण निधनं काले ये गच्छन्त्यपराड्युखाः ।
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥
क्वनु ते क्षत्रियाः शूरा नहि पश्यामि तानहम् ।
आगच्छतो महीपालान्दयितामनिथीन्मम ॥
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत ।
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः ॥
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता ।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥
तस्याः स्वयंवरः शक्र भविता नचिरादिव ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः ।
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः ।
आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत् ।
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥
ततः सर्वे महाराज सगणाः सहवाहनाः ।
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः ॥
नलोपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥
अथ देवाः पथि नलं ददृशुर्भूतले स्तितम् ।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् ।
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः ।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥
भोभो निषधराजेन्द्र नल सत्यव्रतो भवात् ।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
3-51-5 जज्ञुः ज्ञातवत्यः । रइङ्गितैः
अभिप्रायसृचकैश्चेष्टितैः ॥ 3-51-9 अनुभूयतां प्रेक्ष्यतां भवद्भिः ॥ 3-51-20
महीक्षितः पृष्वीश्वरा ॥ 3-51-29 विगतो विनष्टः दमयन्तीं प्राप्स्याम
इतिसंकल्पो येषाम् ॥