अध्यायः 053

नलदमयन्तीसंवाद ॥ 1 ॥ नलेनेन्द्रादीन्प्रति दमयन्तीवचननिवेदनम् ॥ 2 ॥

बृहदश्व उवाच ।
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचना ।
तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥
हंसानां वचनं यत्तु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति ।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा ।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः ।
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥
यस् दण्डभयात्सर्वे भूतग्रामाः समागताः ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥
क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥
नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥
देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥
तामुवाच ततो राजा वेषमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं ॥
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥
एष धर्मो यदि स्वार्थो ममापि भविता ततः ।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥
ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर ।
येन दोषो न भविता तव राजन्कथंचन ॥
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः ।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशंपते ।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥
नल उवाच ।
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।
ऋते तां पार्तिवसुतां भवतामेव तेजसा ॥
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥
वर्ण्यमानेषु च मया भवत्सु रुचिराननां ।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।
त्वया सह नरव्याघ्र मम यत्रस्वयंवरः ॥
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध ।
एवं तव महाबाहो दोषो न भवितेति ह ॥
एतावदेव विबुधा यथावृत्तमुपाहृतम् । मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥

3-53-1 यथाश्रद्धं देवेभ्यो नमस्कृत् प्रणयस्वेति संबन्धः । प्रणयस्व परिणयस्व । मामिति शेषः ॥ 3-53-2 विस्रब्धं सविश्वासं यथास्यात्तथा प्रणयं परिणयनं विवाहम् ॥ 3-53-3 सन्निपातिताः मेलिताः ॥ 3-53-4 मृत्युकारणादिति क. ध. पाठः ॥ 3-53-25 महाकक्ष्यं महान्तं राजद्वारप्रदेशम् ॥ 3-53-31 अतःपरं प्रमाणं तु भवन्तोऽमरसत्तमा इति. क. पाठः ॥