अध्यायः 054

स्वयंवरमण्डपे इन्द्राग्नियमवरुणैर्नलसारूप्येण तत्पार्श्वे समुपवेशनम् ॥ 1 ॥ दमयन्त्या स्वगुणसंतुष्टेन्द्रादिप्रसादेव नलस्थैव वरणम् ॥ 2 ॥

बृहदश्व उवाच ।
अथ काले शुभे प्राप्ते तथौ पुण्ये क्षणे तथा ।
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः ।
त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः ॥
कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम् ॥
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः ।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः ॥
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ।
`प्रविवेश नलो देवैः पुण्यश्लोको नराधिप' ॥
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः ।
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥
सुकेशान्तानि चारूणि सुनासानि शुभानि च ।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना ।
मुष्णन्ती प्रभया राज्ञां चक्षूषि च मनांसि च ॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।
तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम् ॥
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ।
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह ॥
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् ।
संदेहादथ वेदर्भी नाभ्यजानान्नलं नृपम् ॥
`निर्विशेषवयोवेषरूपाणां तत्र सा शुभा ।' यंयं हि ददृशे तेषां तंतं मेने नलं नृपम् ।
साचिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी ॥
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ।
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता ॥
श्रुतानि देवलिङ्गानि तर्कयामास भारत ।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ॥
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ।
एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः ॥
शरणं प्रति देवानां प्राप्तकालममन्यत ।
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ॥
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् । हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः ।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥
मनसा वचसा चैव यथा नातिचराम्यहम् ।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥
यथा देवैः स मे भर्ता विहितो निषधाधिषः ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥
यथेदं व्रतमारब्धं नलस्याराधने मया ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः ।
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम् ।
निश्चयंपरमं तथ्यमनुरागं च नैषधे ॥
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे ।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः ।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत ।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना ।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम् ॥
वरयामास चैवैनं पतित्वे वरवर्णिनी ।
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः ॥
देवैर्महर्षिभिस्तत्र साधुसाध्विति भारत ।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः ।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना ॥
यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ ।
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम् ॥
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते ।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते ॥
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ॥
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान् ।
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ॥
वृते तु नैषधे भैम्या लोकपाला महौजसः ।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः ।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् ।
अपांपतिरपां भावं यत्रवाञ्छति नैपधः ॥
स्रजश्चोत्तमगन्धाढ्याः सर्वेच मिथुनं ददुः
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः । `एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत ।
यथा स्वप्नं महाराज तथैव ददृशुर्जनाः ॥
ततः स्वयवरं चक्रे भीमो राजाऽतिमानुषम् ।
समागतेषु सर्वेषु भूपालेसु विशांपते ॥
दमयन्त्यपि तद्दृष्ट्वाराजमण्डलमृद्धिमत् ।
अन्वीक्ष्यनैषधं वव्रे भैमी धर्मेण भारत ॥
वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे ।
सर्व एव महीपालाः प्रतिजग्मुर्यथागतम्' ॥
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः ।
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः ।
विवाहं कारयामास दमयन्त्या नलस्य च ॥
उष्य तत्र तथाकामं नैषधो द्विपदांवरः । भीमेन समनुज्ञातो जगाम नगरं स्वकम् ।
अवाप्य नारीरत्नं तु पुण्यश्लोकोपि पार्थिवः ॥
रेमे सह तया राजञ्छच्येव बलवृत्रहा ।
अतीव मुदितो राजा भ्राजमानोंशुमानिव ॥
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् । ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः ।
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः ॥
पुगश्च रमणीयेषु वनेषूपवनेषु च ।
दमयन्त्या सह नलो विजहारामरोपमः ॥
जनयामास च ततो दमयन्त्यां महामनाः ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां चकन्यकाम् ॥
एवं स यजमानश्च विहरंश्च नराधिपः । ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

3-54-7 सुनासाक्षिभ्रुवाणि श्वेति झ. पाठः ॥ 3-54-8 मुष्णन्ती हरन्त ॥ 3-54-21 लोकपालाः सहेश्वरा इति झ. पाठः ॥ 3-54-24 अम्लानस्रजश्च ते रजोहीनाश्चेति विग्रहः । ठायाविहीनानम्लानस्रजोऽस्वेदसमन्वितानिति क. पाठः ॥ 3-54-31 यद्यस्मान्मां भजसि तस्मात्ते तव वचने रतं इत्येतत् विद्धि ॥ 3-54-37 आत्मभवं भात्मन आविर्भावम् ॥ 3-54-38 अन्नरसं यादृशे तादृशेप्यन्ने विशिष्टरसवत्ताम् । भावं सत्ताम् । मुधुनं एकैकेन द्वयं द्वयमपीत्यर्थः ॥ 3-54-43 अनुभूय दृष्ट्वा ॥ 3-54-45 उष्य वासं कृत्वा ॥