अध्यायः 001

द्यूतजितानां पाण्डवानां द्रौपद्यासह वनंप्रति प्रस्थानम् ॥ 1 ॥ तदनु पौरैर्दुर्योधननगर्हणपूर्वकं पाण्डवैः सहारण्यवासेच्छया तदनुगमनम् ॥ 2 ॥ युधिष्ठिरेण प्रार्थनया तेषां पुरंप्रति निवर्तनपूर्वकं सायं गङ्गातीरगवटमेत्य तत्रानुगतब्राह्मणैः सह सुखेन रात्रियापनम् ॥ 3 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥
श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम् ।
किमकुर्वत कौरव्या मम पूर्वपितामहाः ॥
कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः ।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥
के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् ।
किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ॥
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् ।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् ।
पतिव्रता महाभागा सततं प्रियवादिनी ॥
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ॥
श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम् ।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥
वैशंपायन उवाच ।
एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः ।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा ।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश ।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥
`ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत । ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥'
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ।
ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ॥
पौरा ऊचुः ।
नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः । यत्रदुर्योधनः पापः सौबलेयेन पालितः ।
कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ॥
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् ।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ॥
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः ।
अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः ।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः ।
हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥
वैशंपायन उवाच ।
एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च ।
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥
क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः ।
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः ।
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ॥
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान् ।
कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः ॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः ।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा ॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥
मोहजालस्य योनिर्हि मूढैरेव समागमः ।
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः ।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी ॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु ।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासवात् ।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ॥
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः । ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः ।
लोकाचारेषु संभूता वेदोक्ताः शिष्टसंमताः ॥
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः ।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ॥
युधिष्ठिर उवाच ।
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः ।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः ।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥
भीष्मः पितामहो राजा विदुरो जननी च मे ।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः ।
युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः ॥
निवर्ततागता दूरं ममागमनकाङ्क्षिणः ।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम् ।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ॥
वैशंपायन उवाच ।
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः ।
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः ।
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥
निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः ।
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥
ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः ।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥
उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः ।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ॥
साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ।
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे ।
ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।
आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत् ॥
`राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः । अशेत तां निशांराजन्दुःखशोकसमाहितः ॥'

इति श्रीमन्महाभाते अरण्यपर्वणि किर्मीरवधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

3-1-1 पार्था इति च्छत्रिन्यायेन माद्रीसुतयोरप्युपलक्षणम् । दुरात्मभिर्दुष्टचित्तैः । सहामात्यैः कर्णादिभिः । निकृत्या छलेन ॥ 3-1-2 सृजद्भिर्वैरमुत्तममिति ख. ङ. झ. पाठः ॥ 3-1-3 एयुषः प्राप्तवन्तः । कथं चैश्वर्यविभ्रष्टा इति ख. झ. पाठः ॥ 3-1-4 उत्तमं तीव्रम् ॥ 3-1-8 द्रविणं पराक्रमस्तेजो देहकान्तिश्च ते उभे पुष्कले येषां ते भूरिद्रविणतेजसः ॥ 3-1-9 गजसाह्वयात् हास्तिनपुरात् ॥ 3-1-10 वर्धमानपुरंनाम ग्रामविशेषस्तदभिमुखं द्वारं तस्मात् ॥ 3-1-11 परिचतुर्दश अधिकचतुर्दशाः । पञ्चदशेत्यर्थः । संख्यायाव्ययासन्नेति समासः । समासान्तविधेरनित्यत्वात् डचूप्रत्ययस्याभावः ॥ 3-1-13 ऊचुर्विगतसंत्रासा इति ख. झ. पाठः ॥ 3-1-16 प्रकृतिनिर्घृणः स्वभावनिर्दयः । त्यक्ताचारसुहृज्जन इति झ. पाठः ॥ 3-1-18 सानुक्रोशाः सदयाः ॥ 3-1-22 भक्तान् आराधनापरान् । अनुरक्तान् प्रीतिमतः । सुहृदः वेतनाद्युपकारमनपेक्ष्य उपकारकान् । न विनश्येम विनाशं न प्रार्थयासहे । प्रार्थनायां लिङ् ॥ 3-1-24 आपः अपः ॥ 3-1-27 अवदातानि शुद्धानि । समास्या संगतिः ॥ 3-1-28 निरारम्भाः अग्निहोत्राद्यकुर्वाणा अपि ॥ 3-1-29 न सिद्ध्यन्ति सिद्धिश्चित्तशुद्धिस्तां न प्राप्नुवन्ति धर्माचारहीनत्वात् ॥ 3-1-31 अविषयैः अगोचरैरपरिचितैरित्यर्थः । धर्मकामार्थसंभवाः धर्मादीनां संभव उत्पत्तिर्येभ्यस्ते ॥ 3-1-32 समस्ताः एकीभूताः । व्यस्ताः पृथक्पृथग्भूताः ॥ 3-1-34 स्नेहो वात्सल्यं तत्सहिता अनुकम्पा दया ॥ 3-1-40 समागम्य संपृच्छ्य 3-1-43 ऊषुः वासं चक्रुः ॥ 3-1-44 ऊषुर्निन्युः ॥ 3-1-45 साग्नयः दारैः सहिताः अग्नयो यैस्ते । रम्यत्वं तापविरहात्संध्यारागादिशोभातश्च । दारुणो रक्षःपिशाचादिसंचारकालत्वात् ॥