अध्यायः 057
द्यूते नलपराजयमुत्पश्यन्त्या दमयन्त्या चोदितेन सारथिना तत्पुत्रमिथुनस्य रथारोपणेन भीमनगरप्रापणम् ॥ 1 ॥
बृहदश्व उवाच ।
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम् ॥
भयशोकसमाविष्टा राजन्भीमसुता ततः ।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥
बृहन्सेने व्रजामात्यानानाय्य नलंशासनात् ।
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥
`इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर ।
उवाच देव्या वचनं मन्त्रिणां सा समीपत ॥'
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान् ।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभापितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥
वार्ष्णेयं तु ततो भैमी सान्त्वयच्छ्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥
जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।
तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि ॥
यथायथा हि नृपतिः पुष्करेणैव जीयते ।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते ॥
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति नैषध ॥
यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे ।
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः ॥
यत्तु मे वचनं राजा नाभिनन्दति मोहितः ।
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः ।
न हि मे शुध्ते भावो विनाशं प्रति सारथे ॥
नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि ॥
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा ॥
दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः ।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।
क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः ।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।
भृतिं च स ददौ चास्य सारथ्येन नियोजितः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तपञ्चाशोऽध्याः ॥ 57 ॥
3-57-2 द्वितीयं द्वतीयवारम् । न च तत्प्रत्यवबुध्यतेति क. ध.पाठः ॥ 3-57-19 कदाचिद्विनशेदपीति झ.पाठः ॥ 3-57-20 मिथुनं कुमारीं कुमारं च । कुण्डिनं भीमस् नगरम् ॥ 3-57-22 मुख्यशः मुख्येषु मुख्येषु ॥ 3-57-23 वाहिना अश्वरथेन ॥ 3-57-26 भृतिं वेतनम् ॥