अध्यायः 059

नलेन स्वपन्त्या दमयन्त्या वस्त्रार्धच्छेदनपूर्वकं परित्यागेनापयानम् ॥ 1 ॥

बृहदश्व उवाच ।
`इत्युक्तः स तदा देव्या नलो वचनमब्रवीत् ।' यथा राज्यंतव पितुस्तथा मम नसंशयः ।
न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥
कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः ।
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।
सान्खयामास कल्याणीं वाससोर्धेन संवृताम् ॥
तावेकवस्त्रसंवीतावटमानावितस्ततः ।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥
तां सभामुपसंप्राप्य तदा स निषधाधिपः ।
वैदर्भ्या सहितो राजा निषसाद महीतले ॥
स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः ।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥
`ततः स्ववसनस्यान्तं दमयन्ती विशांपते । भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना ॥'
दमयनत्यपि कल्याणी निद्रयाऽपहृता ततः ।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥
सुप्तायां दमयन्त्यां तु नलो राजा विशांपते ।
शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा ॥
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥
किं नु मे स्यादिदं कृत्वा किंनु मे स्यादकुर्वतः ।
किंनु मे मरणं श्रेयः परित्यागो जनस्य वा ॥
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥
मया निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता ।
उत्सर्गेसंशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥
बृहदश्च उवाच ।
स विनिश्चित्य बहुधा विचार्य च पुनःपुनः ।
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप ॥
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि ।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥
एवं तस् तदा बुद्धिर्दमयन्त्यां न्यवर्तत ।
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया ।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥
परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम् ॥
तेनार्धं वाससश्छित्त्वा निवस् च परंतपः ।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम् ॥
ततो निबद्धहृदयः पुनरागम् तां सभाम् ।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः ॥
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥
इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति ॥
कथमेका सती भमी मया विरहिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि ।
कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः ॥
गत्वागत्वा नलो राजा पुनरेति सभां मुहुः ।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते ॥
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।
दोलेव मुहुरायाति याति चैव मुहुर्मुहुः ॥
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः । जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

3-59-10 परिध्वंसं कलिना वस्त्रापहरणादिक्लेशम् ॥ 3-59-11 जनस्य भार्यायाः ॥ 3-59-16 दमयन्त्यां विषये न्यवर्तत निवृत्तासती विसर्जनेऽभूदिति शेषः ॥ 3-59-20 निवस्य परिधाय ॥