अध्यायः 061
नलमन्वेषयन्त्या दमयन्त्या वनमध्ये
हस्त्यश्वरथसंकुलजनसार्थदर्शनम् ॥ 1 ॥ तथा सार्तनाथेन संभावणम् ॥ 2 ॥
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥
सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम् ।
नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम् ॥
सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः ।
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् ।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम् ॥
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् ।
प्रियालतालखर्जूरहरीतकिबिभीतकैः ॥
नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः ॥
नदी सरांसि वापीश्च विविधांश्चरतो द्विजान् ।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ॥
पल्वलानि तटाकानि गिरिकूटानि सर्वशः ।
सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम् ॥
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता ।
वैर्दभी विचचारैका नलमन्वेषती तदा ॥
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥
विदर्भतनया राजन्विललाप सुदुःखिता ।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता ॥
दमयन्त्युवाच ।
सिह्योरस्क महाबाहो निषधानां जनाधिप ।
क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने ॥
अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः ।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥
यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप ।
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः ॥
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर ।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥
हा वीर ननुनामाहमिष्टा किल तवानघ ।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥
न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा ।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।
ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे ॥
कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।
न मानयसि मामार्य रुदन्तीमरिकर्शन ॥
महाराज महारण्ये मामिहैकाकिनीं सतीम् ।
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥
कुलशीलोपसंपन्नां चारुसर्वाङ्गशोभनाम् ।
`अनुव्रतां महाराज किं मां न प्रतिभाषसे ॥'
नाद्यत्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम ।
वने चास्मिन्महाधोरे सिंहव्याघ्रनिषेविते ॥
शयानमुपविष्टं वा स्थितं वा निषधाधिप ।
प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण ॥
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता ।
कच्चिद्दृष्टस्त्वयाऽरण्ये संगत्येति नलो नृपः ॥
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम् ।
अभिरूपं महात्मानं परव्यूहविनाशनम् ॥
यमन्वेपसि राजानं नलं पद्मनिभेक्षणम् ।
अयंस इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः ।
शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता ॥
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः ।
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ।
`सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः ॥'
अथवाऽरण्यनृपते नलं यदि न शंससि ।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय ॥
श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम् ।
यात्येष मृष्टसलिलामापगां सागरोपमाम् ॥
इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छितैः ।
विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥
नानाधातुसमाकीर्णं विविधोपलभूषितम् ।
आस्यारण्यस्य महतः केतुभूतमिवोच्छितम् ॥
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥
किंशुकाशोकबकुलपुन्नागैरुपशोभितम् ।
[कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ॥]
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम् ।
`पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्' ।
निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥
भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत ।
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम् ।
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥
राजा विदर्भाधिपतिः पिता मम महारथः ।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।
शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः ॥
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥
निषधेषु महाराजः श्वशुरो मे नरोत्तमः ।
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः ।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥
नलो नामारिहा श्यामः पुण्यल्को इति श्रुतः ।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् ।
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम् ॥
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः ।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः ।
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥
कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम् ।
गिरा नाश्वासयस्यद्यस्वां सुतामिव दुखितां ॥
वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते ।
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥
कदा सुस्निग्गम्भीरां जीमूतस्वनसन्निभाम् ।
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥
वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः ।
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं ॥
इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।
तापसारण्यमतुलं दिव्यकाननशोभितम् ॥
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।
नियतैः संयताहारैर्दमशौचसमन्वितैः ॥
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च ।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः ।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥
नानामृगगणैर्जुष्टं शाखामृगगणायुतम् ।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् ॥
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।
स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः ॥
पूजां चास्या यथान्यायं कृत्वा तत्रतपोधनाः ।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥
तानुवाच वरारोहा कच्चिद्भगवतामिह ।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥
कुशलं वो महाभागाः स्वधर्माचरणेषु च ।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥
ब्रूहि सर्वानवद्याङ्गि का त्वं किंच चिकीर्षसि ।
दृष्ट्वैव ते परंरूपं द्युतिं च परमामिह ॥
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ।
अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः ।
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ॥
साऽब्रवीत्तानृपीन्नाहमरण्यस्यास्य देवता ।
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ॥
मानुषीं मां विजानीत यूयं सर्वेतपोधनाः ।
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥
विदर्भेपु महीपालो भीमो नाम महीपतिः ।
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥
निपधाधिपतिर्धीमान्नलो नाम महायशाः ।
वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः ॥
देवताभ्यर्चनपरो द्विजातिजनवत्सलः ।
गोप्ता निपधवंशस्य महातेजा महाबलः ॥
सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः ।
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ।
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ।
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः ।
आहृय पृथिवीपालः सत्यधर्मपरायणः ।
देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥
तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै ।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥
सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः ॥
अन्वेपमाणआ भर्तारं नलं रणविशारदम् ।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः ।
भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः ॥
यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम् ।
वनं प्रतियं धोरं शार्दूलमृगसेवितम् ॥
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात् ॥
कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥
तथा विलपतीमेकामरण्ये भीमनन्दिनीम् ।
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥
उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥
निपधानामधिपतिं नलं रिपुनिपातिनम् ।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम् ॥
द्विपतां भयकर्तारं सुहृदां शोकनाशनम् ।
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा ॥
सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा ।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥
`चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम्' ॥
किंनु स्वप्नो मया दृष्टः कोऽयंविधिरिहाभवत् ।
क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥
क्व सा पुण्यजला रम्या नदी द्विजनिषेविता ।
क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः ॥
`इत्येवं नरशार्दूल विस्मिता कमलेक्षणा ।'
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।
भर्तृशोकपरा दीनाविवर्णवदनाऽभवत् ॥
सा गत्वाऽथापरां भूमिं बाष्पसंदिग्धया गिरा ।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः ॥
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने ।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे ।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन ।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥
नलं नामारिदमनं नमयन्त्याः प्रियं पतिम् ।
निमधानामधिपतिं दृष्टवानसि मे प्रियम् ॥
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥
यथा विशोका गच्छेयमशोकनग तत्कुरु ।
सत्यनामा भवाशोक मम शोकविनाशनात् ॥
एवंसाऽशोकवृत्तं तमार्ता वै परिगम्य ह ।
जगाम दारुणतरं देशं भैमी वराङ्गना ॥
सा ददर्श नागान्नैकान्नैकाश्च सरितस्तथा ।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥
कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः ।
ददर्श तान्भीमसुता पतिमन्वेषती तदा ॥
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् ॥
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रबाकोपकूजिताम् ।
कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम् ॥
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी ।
उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता ।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥
तां दृष्ट्वा तत्रमनुजाः केचिद्भीताः प्रदुद्रुवुः ।
केचिच्चिन्तापरास्तस्थुः केचित्तत्रविचुक्रुशुः ॥
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।
कुर्वन्त्यस्यांदयांकेचित्पप्रच्छुश्चापि भारत ॥
काऽसि कस्यासि कल्याणि किं वा मृगयसे वने ।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसिं मानुषी ॥
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः ।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥
यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना ।
सर्वथाकुरु नः स्वस्ति रक्ष चास्माननिन्दिते ॥
यथाऽयंसर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् ।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता ॥
सार्तवाहं च सार्थं च जना ये चात्र केचन ।
युवस्थविरबालाश् सार्थस्य च पुरोगमाः ॥
मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥
विदर्भराण्मम पिता भर्ता राजा च नैषधः ।
नलोनाम महाभागस्तं मार्गाम्यपराजितम् ॥
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् ।
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः ।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते ।
मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते ॥
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥
साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि ॥
सार्तवाह उवाच ।
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः ।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥
3-61-1 प्रतिभयं भीषणम् । झिल्लिका तीक्ष्णशब्दः पतङ्गविशेषः ॥ 3-61-47 ब्रह्मण्यः ब्रह्मणि ब्राह्मणजातौ वेदे वैदिककर्मणि परमात्मनि वा
साधुः ॥ 3-61-66 सुद्विजानना शोभनदन्तयुक्तमुखी । सुप्रतिष्ठा सुजघना ॥ 3-61-67 वीरसेनसुतस्य नलस्य प्रिया ॥ 3-61-82
सधूतैर्निकृतिप्रज्ञैरकल्याणैर्नराधमैरिति क. पाठः ॥ 3-61-88 श्रेयसा मोक्षेण
योक्ष्ये योजयिष्ये । योगबलेन देहे त्यक्त्वा मोक्षं प्राप्स्ये इत्यर्तः ॥ 3-61-91 उदर्कः उत्तरकालः ॥ 3-61-102 पल्लवैः आपीडितं भूषितम् ॥ 3-61-103
अगमः वृक्षः । आपीडैः पुष्पफलादिरूपैरलंकारैः ॥ 3-61-111 महासार्थं महान्तं
जनसमूहम् ॥ 3-61-114 वरारोहा विस्तीर्णजघना ॥ 3-61-115 पांसुयुक्ताः ध्वस्ताः
मुक्तबन्धाश्च शिरोरुहाः केशा यस्याः ॥ 3-61-125 मार्गामि अन्वेषयामि ॥