अध्यायः 063

दमयन्तीं परित्यज्याटव्यामटन्तं नलंप्रति वनवह्निवेष्टितेन कर्कोटकेनात्मपरिरक्षणप्रार्थना ॥ 1 ॥ नलेन दावाग्नितो मोचितेन कर्कोटकेन नलगात्रे दंशनेन वैरूप्यापादनम् ॥ 2 ॥ तथा निजरूपाविष्करणेच्छायां स्वस्मरणेन वासोवसनविधानपूर्वकं वस्त्रप्रदानम् ॥ 3 ॥

बृहदश्व उवाच ।
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते ।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥
तत्र सुश्राव शब्दंवै मध्ये भूतस्य कस्यचित् ।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।
दद्रश नागराजानं शयानं कुण्डलीकृतम् ॥
स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा ।
उवाच मां विद्धिराजन्नागं कर्कोटकं नृप ॥
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप ॥
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित् ।
इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात् ॥
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।
दं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम् ॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम् ॥
ततः संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥
यत्कृते चासि निकृतो दुःखेन महता नल ।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति ॥
अनागा येन निकृतस्त्वमनर्हो जनाधिप ।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा ।
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप ॥
राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
संग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि ॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर ।
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै ॥
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥
संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः ।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेऽहंवासश्चदं विवासयेः ॥
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥
एवं नलं च संदिश्य वासो दत्ताव च कौरव । नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

3-63-8 लघुगुरुत्वरहितः ॥ 3-63-9 दावविवर्जितं बह्निहीनम् ॥ 3-63-12 दशेत्युक्तेऽदशत् । आज्ञां विना नागो न दशतीति भावः 3-63-15 स कलिः । इदं दमयन्त्या दत्तस्य शापस्य फलं कलिर्भुङ्क्ते इति भावः ॥ 3-63-17 अनागाः निरपराधः । निकृतो वञ्चितः । मे मया ॥ 3-63-18 ब्रह्मविद्भ्यश्च भवितेति झ. पाठः ॥ 3-63-21 अक्षहृदयं द्यूते जयावहम् । अश्वहृदयेन विद्यया विद्यां परिवर्तयेदित्यर्थः ॥ 3-63-24 निवासयेः परिधेहि ॥