अध्यायः 068

नलान्वेपिणा पर्णादनाम्ना विप्रेण ऋतुपर्णनृपगृहे बाहुकनामनिगृढे नले शृण्वति दमयन्तीवचनानुवादः ॥ 1 ॥ बाहुकेन विजने पर्णादंप्रति दमयन्तीवचनस्योत्तरदानम् ॥ 2 ॥ पर्णादेन विदर्भान्पुनरभ्येत्य दमयन्त्या बाहुकवचननिवेदनम् ॥ 3 ॥ बाहुके नलशङ्किन्या दमयन्त्या प्रेपितेन सुदेवेन अयोध्यांगत्वा ऋतुपर्णे श्लोनभूते दमयन्त्याः पुनः स्वयंवरो भवितेति कीर्तनम् ॥ 4 ॥

बृहदश्व उवाच ।
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥
नैषधं मृगयाणेन दमयन्ति दिवानिशम् ।
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः ॥
श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः ।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत् ॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥
स विनिःश्वस्य बंहुशो रुदित्वा च षुनःपुनः ।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन । 3-68-9bप्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम् ।
भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति ॥
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः ॥
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशांपते ।
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत ॥
अयमर्थौ न संवेद्यो भीमे मातः कदाचन ।
त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम् ॥
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।
यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि ॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम् ॥
समानेतुं नलं मातरयोध्यां नगरीमितः ।
`ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम्' ॥
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम् ।
अर्चयामास वैदर्भी धनेनातीव भामिनी ॥
`लवाच चैनं महता संपूज्य द्रविणेन वै ।' नले चेहागते विप्र भूयो दास्याभि ते वसु ॥
त्वया हि मे बहुकृतंयदन्यो न करिष्यति ।
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः ।
गृहानुपययौ चापि कृतार्थः सुमहामनाः ॥
ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर ।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता ॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥
तथा च गणितः कालः श्वोभूते स भविष्यति ।
यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम ॥
सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति ।
न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा ॥
एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत् । ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपास्त्र्यानपर्वणि अष्टषष्ठितमोऽध्यायः ॥ 68 ॥

3-68-8 गोपायन्ति पालयन्ति । जितः स्वर्गस्ताभिरित शेषः ॥ 3-68-26 संभाविनी संभाविता इयम् । गतिरिति शेषः ॥