अध्यायः 070
बाहुकस्य सारध्यसामर्थ्यविस्मितेन ऋतुपर्णेन तंप्रति
पुञ्जीभूतवस्तुपरिसंख्याने स्वीयसामर्थ्यनिवेदनम् ॥ 1 ॥ वृक्षशाखास्थपर्णेषु
तत्परीक्षया विस्मितेन नलेनाश्वहृदयविद्यादानप्रतिज्ञानन
तदीयाक्षहृदयादिविद्यास्वीकरणम् ॥ 2 ॥ ततो नलदेहाद्वहिर्निःसृतेन कलिना
नलशापभयात्तस्मै वरदानपूर्वकं विभीतकवृक्षप्रवेशः ॥ 3 ॥
स नदीः पर्वतांश्चैव वनानि च सरांसि च ।
अचिरेणातिचक्राम स्वेचरः खे चरन्निव ॥
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः ।
उत्तरीयमधोपश्यद्धष्टं परपुरंजयः ॥
ततः स त्वरमाणस्तु पटे निपतिते तदा ।
ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।
वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ॥
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः ।
आससाद वने राजन्फलवन्तं बिभीतकम् ॥
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत ।
ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥
वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक ।
पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम् ॥
एवपत्राधिकं चात्र फलमेकं च बाहुक ।
फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः ।
`प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान् ॥'
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् ।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम् ।
अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम् ॥
प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम् ।
अहं हि नाभिजानामि भवेदेव नवेति वा ॥
संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप ।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान् ।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन ।
त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ॥
त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद ।
शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ॥
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे ।
अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम् ।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥
अकाम इव तं राजा गणयस्वेत्युवाच ह ।
एकदेशं च शाखायाः समादिष्टं मयाऽनघ ॥
गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह ।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।
गणयित्वायथोक्तानि तावन्त्येव फलानि तु ॥
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥
तमुवाच ततो राजा त्वरितो गमने नृप ।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे ।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ ॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः ॥
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् ।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ।
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ॥
स तेन कर्शितो राजादीर्घकालमनात्मवान् ॥
`तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः' ।
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः ।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा ।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥
अवसं त्वयि राजेन्द्र सुदुःखभपराजित ।
विषेण नागराजस्य दह्यमानो दिवानिशम् ॥
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम ।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ॥
`न तेषां मानसं किंचिच्छारीरं वाचिकं तथा ।
भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्' ।
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ॥
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।
ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम् ।
कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ॥
ततो गतत्वरो राजा नैषधः परवीरहा ।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत ॥
मुदा परमया युक्तस्तेजसाऽथ परेण वै ।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ।
`ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन' ॥
हयोत्तभानुत्पततो द्विजानिव पुनः पुनः ।
नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥
विदर्भाभिमुखो राजा प्रययौ स महायशाः ।
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ॥
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः ।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥
3-70-9 तत्रैकमधिकं शतमिति झ. पाठः ॥ 3-70-10 पञ्चकोट्योऽथ
पत्राणामिति झ. पाठः ॥ 3-70-26 अक्षहृदयज्ञं अक्षाणां अक्षाभिमानिदेवताया
हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयम् । येन ज्ञातेन द्यूतेऽक्षा अनुकूला
भवन्ति । संख्याने राशीकृतानां पत्रपुष्पफलधान्यादीना
राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्संख्याकथने ॥ 3-70-30 शापाग्निर्दमयन्तीनिशृष्टः स विषरूपः ॥ 3-70-39 फलानि संख्याय ।
अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ॥ 3-70-42 द्विजानिव
पक्षिण इव ॥