अध्यायः 073

केशिन्या बाहुकस्य जलाग्न्युत्पादनाद्यद्भुतकर्मनिवेदितया दमयन्त्या पुनःपरीक्षणाय तंप्रति कन्यापुत्रयोः प्रेपणम् ॥ 1 ॥ बाहुकेन सबाष्पं पुत्रयोः परिरम्भणम् । केशिनींप्रति स्वकर्मणः कारणान्तरकथनेनापह्नवश्च ॥ 2 ॥

बृहदश्व उवाच ।
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।
तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम् ॥
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि । याचते न जलं देयं सकृच्चात्वरमाणया ।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ॥
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी ।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ॥
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ॥
केशिन्युवाच ।
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ॥
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित् । तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ॥
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः ।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ॥
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ॥
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ॥
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा ।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि ॥
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता ।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ॥
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ॥
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च । अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी ।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ॥
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत् ॥
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ॥
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ॥
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः ।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः । वयंच देशातिथयो गच्छ भद्रे यथासुखम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

3-73-9 द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति । संकटे संकुचिते ॥ 3-73-10 पाशवं पशुसंबन्धि ॥ 3-73-12 सवितुः सकाशात् । समादधत् उद्दीपितवान् । समादाय ह्याविध्यैनमिति झ. पाठः ॥ 3-73-18 कर्म पाकादि । चेष्टा भूतजयादि ॥ 3-73-22 बहुशः बहुवारम् ॥ 3-73-28 संपतन्तीं आयान्तीम् ॥