अध्यायः 003
					 युधिष्ठिरेण ब्राह्मणभरणाय धौम्यचोदनया सूर्यस्तुतिः ॥ 1 ॥
						स्तोत्रैः प्रसन्नेन सूर्येण युधिष्ठिरायाक्षयपात्रदानम् ॥ 2 ॥ 
					
					
						शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः ।
							`प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम् ।'
						
						पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम् ॥
						
					 
					
						प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः ।
						न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ॥
					 
					
						परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे ।
						कथमत्र मया कार्यं तद्बूहि भगवन्मम ॥
						वैशंपायन उवाच । 
					 
					
						मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम् ।
						युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ॥
					 
					
						पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ।
						ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा ॥
					 
					
						गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः ।
						दक्षिणायनमावृत्तो महीं वर्षति वारिणा ॥
					 
					
						क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः ।
						रवेस्तेजः समुद्धृत्य जनयामास वारिणा ॥
					 
					
						निषिक्तश्चन्द्तेजोभिः सूयते जगतो रविः ।
						ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥
					 
					
						एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् ।
						नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ॥
					 
					
						राजानो हि महात्मानो योनिकर्मविशोधिताः ।
						उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥
					 
					
						भौमेन कार्तवीर्येण वैन्येन नहुषेण च ।
						तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥
					 
					
						तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः ।
						तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः ।
							ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम् ।
						
						अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ॥
						
					 
					
						[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः ।
							धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥]
						
					 
					
						पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् ।
						सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ॥
					 
					
						गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान् ।
							[शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः
						
						युधिष्ठिर उवाच । 
					 
					
						त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
						त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां ॥
					 
					
						त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
						अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥
					 
					
						त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते ।
						त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥
					 
					
						त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
						स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ॥
					 
					
						तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
						सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥
					 
					
						त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
						सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः ॥
					 
					
						उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
						दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥
					 
					
						गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
						ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥
					 
					
						वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
						वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥
					 
					
						सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
						न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥
					 
					
						सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च ।
						न तु तेषां तथा दीप्तिः प्रभावो वायथा तव ॥
					 
					
						ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
						त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ॥
					 
					
						त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा ।
						देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥
					 
					
						त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
						सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥
					 
					
						तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः ।
						विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥
					 
					
						न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
						शीतवातार्दितं लोकं यथा तव मरीचयः ॥
					 
					
						त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
						त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥
					 
					
						तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
						न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥
					 
					
						आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः ।
						त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥
					 
					
						यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम् ।
						तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥
					 
					
						मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
						मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥
					 
					
						संहारकाले संप्राप्ते तव क्रोधविनिःसृतः ।
						संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥
					 
					
						त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः ।
						सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् ॥
					 
					
						कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः ।
						संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥
					 
					
						त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
						त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ॥
					 
					
						त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
						विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥
					 
					
						सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
						मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥
					 
					
						दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
						आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥
					 
					
						सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः ।
						अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् ॥
					 
					
						न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
						ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ॥
					 
					
						सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः ।
						त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥
					 
					
						त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
						अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥
					 
					
						येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
						माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥
					 
					
						क्षुभया सहिता मैत्री याश्चान्या भूतमातरः ।
							ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥]
						
						वैशंपायन उवाच । 
					 
					
						कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः ।
							ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ।
						
						दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥
						
						विवस्वानुवाच । 
					 
					
						यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि ।
						अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥
					 
					
						गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ।
						यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ॥
					 
					
						फलमूलामिषं शाकं संस्कृतं यन्महानसे ।
							चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
						
						इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥
						
						वैशंपायन उवाच । 
					 
					
						एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥
						
					 
					
						लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् ।
						जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ॥
					 
					
						द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः ।
						महानसे तदान्नं तु साधयामास पाण्डवः ॥
					 
					
						संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम् ।
						अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ॥
					 
					
						भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि ।
						शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः ॥
					 
					
						युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ।
							[द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥]
						
					 
					
						एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः ।
						कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ॥
					 
					
						पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु ।
						इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥
					 
					
						ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः ।
						द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥
						`जनमेजय उवाच । 
					 
					
						पुष्पोपहारबलिभिर्बहुशश्च यथाविधि ।
						सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः ॥
					 
					
						स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः ।
						विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥
					 
					
						मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम् ।
							भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम् ॥'
						
						वैशंपायन उवाच । 
					 
					
						शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः ।
						क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥
					 
					
						धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने ।
						नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥
					 
					
						सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।
						गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥
					 
					
						पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
						सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥
					 
					
						इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
						ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥
					 
					
						वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
						धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ॥
					 
					
						कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
						कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥
					 
					
						संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
						पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
					 
					
						लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः ।
						वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ॥
					 
					
						भूताश्रयो भूतपति- सर्वभूतनिषेवितः ।
							`मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः ।'
						
						[स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः 
					 
					
						अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।]
							जयो विशालो वरदः सर्वधातुनिषेचिता ॥
						
					 
					
						मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः ।
						धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥
					 
					
						द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ।
						स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
					 
					
						देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
						चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥
					 
					
						एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
						नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥
					 
					
						शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम् ।
						धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान् ॥
					 
					
						सुरगणपितृयक्षसेवितं
							ह्यसुरनिशाचरसिद्धवन्दितम् ।
						
						वरकनकहुताशनप्रभं
							त्वमपि मनस्यभिधेहि भास्करम् ॥
						
					 
					
						सूर्योदये यः सुसमाहितः पठे-
							त्त पुत्रदारान्धनरत्नसंचयान् ।
							लभेत जातिस्मरतां नरः सदा
						
						धृतिं च मेधां च स विन्दते पुमान् ॥
						
					 
					
						[इमं स्तवं देववरस्य यो नरः
							प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
						
						स मुच्यते शोकदवाग्निसागरा-
							ल्लभेत कामान्मनसा यथेप्सितान् ॥
						
					 
					
						[इमं स्तवं प्रयतमनाः समाधिना
							पछेदिहान्योऽपि वरं समर्थयन् ।
						
						तत्त्स्य दद्याच्च रविर्मनीषितं
							तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ॥
						
					 
					
						यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
							पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
						
						विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ॥
						
					 
					
						उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि ।
						आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥
					 
					
						संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु ।
							मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ॥]
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥ 
					 3-3-4 धर्मेण योगमयेन ॥ 3-3-6 तेजो रसान् जलानि । उद्धृत्य
						आदाय ॥ 3-3-7 ओषधीपतिश्चन्द्रः ॥ 3-3-11 तपोयोगः व्रतस्वीकारः तत्पूर्वकः
						समाधिर्ध्यानं तत्स्थैः ॥ 3-3-14 विप्रत्यागसमाधिस्थः विप्रेभ्यस्त्यागः
						त्यज्यमानमन्नं तदर्थं समाधिस्थः नियमस्थः ॥ 3-3-18 सांख्यानां
						ज्ञाननिष्ठानाम् । योगिनां चित्तनिरोधकानाम् । आवृणोतीत्यावृतं कपाटम् ।
						कर्तरिक्तः । अर्गला कपाटविष्टम्भकं तिर्यक्काष्ठं तदुभयरहितं मुक्तिद्वारं त्वं
						मुमुक्षतां गतिः प्राप्यं पदम् ॥ 3-3-28 सत्त्यं सत् पृथिव्यप्तेजांसि । त्यत्
						वाय्वाकाशौ तदात्मकं सत्त्यम् । सत्त्वं बुद्धिसत्त्वम् । सात्विका भावाः धर्मो
						ज्ञानं विराग ऐश्वर्यमित्याद्याः ॥ 3-3-29 सुनाभं सुदर्शनम् ॥ 3-3-32
						प्रावाराः वस्त्रविशेषाः ॥ 3-3-33 गोभिः रश्मिभिः ॥ 3-3-39 सैरावताः
						मेघस्योपरि यो मेघः स ऐरावतस्तत्सहिताः । आभूतं यावच्चतुर्विधभूतग्रामं तस्य
						संप्लवः जलेनाभिप्लावनम् ॥ 3-3-42 हन्ति गच्छति विश्वं संहरतीति वा हंसः
						वृषाकपिः हरो हरिर्वा ॥ 3-3-43 गवां रश्मीनाम् ॥ 3-3-44 सप्तसप्तिः
						सप्ताश्वः । धामकेशी ज्योतिर्मयकिरणवान् ॥ 3-3-45 अनिर्विण्णः पूजने आसक्तः ॥ 3-3-47 त्वद्भावभक्ताः सूर्यएव सर्वत्रास्तीति भावो भावना तत्र भक्ता आदृताः ॥ 3-3-48 श्रद्धया आतिथ्यं चिकीर्षत इति संबन्धः ॥ 3-3-49 अशनिक्षुभान्
						विद्युदशन्यादिप्रवर्तकान् ॥ 3-3-50 क्षुभामैत्र्यौ निग्रहानुग्रहकर्त्र्यौ
						देवते ॥ 3-3-53 पिठरं परिवेषणपात्रम् । ताम्रं ताम्रमयम् । वर्त्स्यति वृत्तिं
						जनजीविकांरूपां करिष्यति । पात्रेण पात्रप्रसूतेनान्नेन ॥ 3-3-57 महानसे
						पाकशालायाम् । साघयामास कारयामास अन्नमिति शेषः ॥ 3-3-58 संस्कृतं पक्वम् ।
						वन्यमन्नं चतुर्विधमिति क. पाठः ॥ 3-3-60 पार्षती पृषतः द्रुपदपितुः
						गोत्रापत्यम् ॥ 3-3-62 प्रवर्तन्ते निःसरन्ति । विधिमन्त्रप्रमाणतः ।
						विधिर्वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरज्ञापनरूपः । मन्त्रः
						अनुष्ठेयार्थस्मारक इषेत्वेत्यादिः । तावेव प्रमाणे ताभ्यामित्यर्थः ॥ 3-3-76
						सर्वलोकनमस्कृत इति झ. पाठः ॥ 3-3-80 मैत्रेयः करुणान्वित इति झ. पाठः ॥ 80