अध्यायः 078
अर्जुनविनाभावेन काम्यकवने निवासमरोचयानैः पाण्डवैस्तस्मान्निर्गमननिर्धारणम् ॥ 1 ॥
जनमेजय उवाच ।
भगवान्काम्यकात्पार्थे गते मे प्रपितामहे ।
पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम् ॥
स हि तेषां महेष्वासो गतिरासीदनीकजित् ।
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥
तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना ।
विनाभूता वने वीराः कथमासन्पितामहाः ॥
वैशंपायन उवाच ।
गते तु पाण्डवेतात काम्यकात्सव्यसाचिनि ।
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इवाण्डजाः ।
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥
वनं तु तदभूत्तेन हीनमक्लिष्टकर्मणा ।
कुबेरेण यथाहीनं वनं चैत्ररथं तथा ॥
तमृते ते नरव्याघ्राः पाण्डवा जनमेजय ।
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्वाणैर्महारथाः ।
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥
नित्यंहि पुरुषव्याघ्रा वन्याहारमरिंदमाः ।
प्रविसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥
एवं ते न्यवसंस्तत्रसोत्कणअठाः पुरुषर्षभाः ।
अहृष्टमनसः सर्वेगते राजन्धनंजये ॥
अथ विप्रोषितं राजन्पाञ्चाली मध्यमं पतिम् ।
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥
शून्यामिव प्रपश्यामि तत्रतत्र महीमिमाम् ।
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ॥
न तथा रमणीयं वै तमृते सव्यसाचिनम् ।
नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम् ॥
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ।
यस्य वा धनुषो घोषः श्रूयते चाशनिस्वनः ।
न लभे शर्म वै राजन्स्मरन्ती सव्यसाचिनम् ॥
तथा लालप्यमानां तां निशाम्य परवीरहा ।
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे ।
तन्म प्रीणाति हृदयममृतप्राशनोपमम् ॥
यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ ।
मौर्वीकृतकिणौ वृत्तौ खङ्गायुधधनुर्धरौ ॥
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।
तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम् ॥
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।
सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥
यस्य बाहू समाश्रित्य वयं सर्वेमहात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् ।
पश्यामि च दिशः सर्वास्तिमिरेणावृता इव ॥
ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः ।
यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे ।
देवा अपि युधांश्रेष्ठं तमृतेका रतिर्वने ॥
उदीचीं चो दिशं गत्वा जित्वा युधि महाबलान् ।
गन्धर्वमुख्याञ्शतशो हर्याँल्लेबे महाद्युतिः ॥
राज्ञे तित्तिरिकल्माषाञ्श्रीमतोऽनिलरंहसः ।
प्रादाद्भात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥
तमृतेभीमधन्वानं भीमादवरजं वने ।
कामये काम्यके वासं नेदानीममरोपमम् ॥
सहदेव उवाच ।
यो धनानिन कन्याश्च युधि हित्वा महाबलान् ।
`शतशो घातयित्वाऽरीन्पृतनामध्यगस्तदा' ।
आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥
यः समेतान्मृधे जित्वायादवानमितद्युतिः ।
सुभद्रामाजहारैको वासुदेवस्य संमते ॥
`येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः ।
आचार्यदक्षिणा दत्ता रणे द्रोणश्यभारत' ॥
तस्य जिष्णोर्बृसीं दृष्ट्वा सून्यत्रेव निवेशने ।
हृदयं मे महाराज न शाम्यात्रकदाचन ॥
विनादस्माद्विवासं तु रोचयेऽहमरिंदम ।
न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥
3-78-5 आक्षिप्तसूत्राश्छिन्नसूत्राः । अण्डजाः पक्षिणः ॥ 3-78-8 मेध्यान् यज्ञार्हान् ॥ 3-78-18 किणं आघातचिह्नम् ॥ 3-78-19 निष्काङ्गदकृतापीडौ साष्टशतं सुवर्णाः निष्कः तत्कृतेनाङ्गदेन कृतभूषणौ ॥ 3-78-30 बृसीं आसनम् ॥