अध्यायः 082

पुलस्त्येन भीष्मंप्रति नानातीर्थमाहात्म्यकथनम् ॥ 1 ॥

पुलस्त्य उवाच ।
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम् ।
[यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः ॥
तेन तीर्थं कृतंपुण्यं स्वेन नाम्ना च विश्रुतम् ॥]
तत्रस्नात्वा नरो राजन्धर्मशील समाहितः ।
आसप्तमं कुलं चैव पुनीते नात्र संशयः ॥
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम् ।
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः ।
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः ।
कतद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥
ततश्चापि सरिचच्छ्रेष्ठा नदीनामुत्तमा नदी ।
प्लक्षा देवी स्मृता राजन्पुण्या देवी सरस्वती ॥
तत्राभिषेकं कुर्वीत वल्मीकान्निः सृतेजले ।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥
कवेराध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।
पट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥
कपिलानां सहस्रं च वाजिमेधं च विन्दति ।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ॥
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् ।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता ।
आहारं सा कृतवती मासिमासि नराधिप ॥
ऋषयोऽभ्यागतास्तत्रदेव्या भक्त्या तपोधनाः । आतिथ्यं च कृतं तेषां शाकेन किल भारत ।
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ॥
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम् ।
तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम् ।
तत्र विष्णुः प्रसादार्थं रुद्रकमाराधयत्पुरा ॥
वरांश्च सुबर्हूल्लेभे दैवतेषु सुदुर्लभान् ।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥
अपिच त्वं प्रियतरो लोके कृष्ण भविष्यसि ।
त्वन्मुखं च जगत्सर्वं भविष्ति न संशयः ॥
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् ।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः ।
मनसा प्रार्थितान्कार्माल्लभते नात्र संशयः ॥
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप । तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ।
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
धारां नाम महाप्रात्र सर्वपापप्रमोचनीम् ॥
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ।
ततो गच्छेत धर्मज्ञ नमस्कृत् महागिरिम् ॥
`अशीतियोजनशतं पुष्करं स्वर्गमुच्यते ।
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः ॥
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश ।
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम्' ॥
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ॥
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् ।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते ॥
ततः कनस्वले स्नात्वा त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप ।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत् ॥
नागराजस्य राजेन्द्र कपिलस्य महात्मनः ।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप ।
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥
गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः ।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥
ततो गच्छेत राजेन्द्र सुगन्धं लोकविथुतम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।
तत्रस्नात्वा नरो राजन्स्वर्गलोके च गच्छति ॥
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति ॥
भद्रकर्णएश्वरं गत्वा देवमर्च्य यथाविधि ।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते ॥
तत कुब्जावतीं गच्छेत्तीर्थसेवी नराधिप ।
रगोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति ॥
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप ।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः ॥
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत् ॥
कब्र्हमावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति ॥
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् ।
अश्वमेधफंल लब्ध्वा स्वर्गलोके महीयते ॥
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम् ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम् ॥
अथ वेदीं समासाद्य नरः परमदुर्गमाम् ।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥
ऋषिकुल्यां समासाद्य वासिष्ठं चैवभारत ।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः ।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते ॥
यदि तत्रवसेन्मासं शाकाहारो नराधिप ।
`द्वादशाहस्य यज्ञस्य फलं स लभते नरः' ॥
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् ।
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत ।
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ॥
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम् ।
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ॥
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने ।
एककालं निराहारो लोकानावसते शुभान् ॥
षष्ठाकालोपवासेन मासमुष्य महालये । सर्वपापविशुद्दात्मा विन्देद्बहु सुवर्णकम् ।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम् ॥
अथ वेतसिकां गत्वा पितामहनिषेविताम् ।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् ।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ॥
ततो वै ब्राह्मणं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् ।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ॥
नैमिषं मृगयाणस् पापस्यार्धं प्रणश्यति ।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः ।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैंमिषे ॥
कृताभिषेकस्तत्रैव नियतो नियताशनः । गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत ।
पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः ।
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ॥
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम ॥
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा ॥
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः ।
सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः । तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ।
देवसत्रस्य यज्ञस्य फलंप्राप्नोति कौरव ॥
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम् ।
पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ॥
विमलाशोकमासाद्य ब्र्हमचारी समाहितः ।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् । यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा ॥
रामस्य च प्रसादेन व्यवसायाच्च भारत । तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप ।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन ।
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ ॥
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥
रततो गच्छेत राजेनद््र भर्तृस्थानमनुत्तमम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः ॥
ततो वाराणसीं गत्वा अर्चयित्वा नृषध्वजम् ।
कपिलाह्रदे नरः स्नात्वाराजसूयमवाप्नुयात् ॥
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह ।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया ॥
प्राणानुत्सृज्यतत्रैव मोक्षं प्राप्नोति मानवः ।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥
गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते ।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥
ततो गयां समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते ॥
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् ।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥
सर्वपापविशुद्धात्मा सोमलोकं ब्रजेद्भुवम् ।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम् ॥
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम् ।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥
तेषूपस्पृश्य राजेन्द्रपदेषु नृपसत्तम ।
यत्कंचिदशुभं कर्म तत्प्रणश्यति भारत ॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम् ।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ ॥
तत्रसंध्यामुपासीत ब्राह्मणः संशितव्रतः ।
उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ॥
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ॥
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः ।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः ।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा ।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत् ॥
मतङ्गस्याश्रमस्तत्रमहर्षेर्भावितात्मनः ॥
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम् ।
गवामयनयज्ञस्य फलंप्राप्नोति मानवः ॥
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात् ॥
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम् । तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ ।
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।
उपस्पृश्य ततस्तत्रकक्षीवानिव मोदते ॥
यक्षिण्या नैत्यकं तत्र प्राश्नीन पुरुषः शुचिः ।
यक्षिण्यास्तु प्रसादेन मुच्यते ब्र्हमहत्यया ॥
मणइनागं ततो गत्वा गोसहस्रफलं लभेत् ॥
तैर्थिकं भुञ्जते यस्तु मणिनागस् भारत ।
दष्टस्याशीविषेणापि न तस्य क्रमते विपम् ॥
तत्रोष् रजनीभेकां गोसहस्रफंल लभेत् ।
ततो गच्छेत ब्रह्मर्पेर्गौतमस्य वनं प्रियम् ॥
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ।
अभिगम्याश्रमं राजन्विनद्ते श्रियमात्मनः ॥
तत्रोदपानं धर्मज्ञ त्रिपु लोकेषु विश्रुतम् ।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥
जनकस् तु राजर्षेः कूपस्त्रिदशपूजितः ।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् ।
वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् ।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम् ।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥
ततोऽधिवङ्गं धर्मज्ञ समाविश्य ततो वनम् ।
गुह्यकेषु महाराज मोदते नात्र संशयः ॥
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम् ।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति ॥
अथ माहेश्वरीं धारां समासाद्य धराधिप ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
दिवौकसां पुष्करिणीं समासाद्य नराधिप ।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति ॥
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः ।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥
तत्रकोटी तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना ॥
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर ॥
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च ॥
सदा सन्निहितो यत्रविष्णुर्वसति भारत ।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥
आदित्या वसवो रुद्रा जनार्दनमुपासते ।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः ॥
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम् । समुद्रास्तत्रचत्वारः कूपे संनिहिताः सदा ।
तत्रोपस्पृश् राजेन्द्र न दुर्गतिमवाप्नुयात् ॥
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
विराजति यथासोमो मेघैर्मुक्तो नराधिप ॥
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः ।
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ॥
वदेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् ।
ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् ।
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम् ॥
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम् ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥
अथ जेष्ठिलमासाद्य तीर्धं परमदुर्लभम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् । मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ।
त्रिरात्रोपोषितस्तत्रअग्निष्टोमफलं लभेत् ॥
कन्यासंवेद्यमासाद्य नियतो नयिताशनः ।
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ॥
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत ।
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ॥
ततो निर्वीरमासाद्य त्रिपु लोकेपु विश्रुतम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥
ये त्विन्धनं प्रयच्छन्ति निर्वीरासंगमे नराः ।
ते यान्ति नरशार्दूल शक्रलोकमनामयम् ॥
तत्राश्रमो वसिष्ठस् त्रिषु लोकेषु विश्रुतः ।
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् ।
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ॥
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ ।
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥
सर्वतीर्थवरे चैव यो वसेत महाह्रदे ।
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ॥
कुमारमभिगम्याथ वीराश्रमनिवासिनम् ।
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् ।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥
अभिगम्य महादेवं वरदं विष्णुमव्ययम् । पितामहसरो गत्वा शैलराजसमीपतः ।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥
पितामहस्य सरसः प्रस्रुता लोकपावनी ।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥
यत्रस्नात्वा कृतार्थोस्मीत्यात्मानमवगच्छति ।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः ।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ॥
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत् ।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् ॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेमवाप्नोति ब्रह्मलोकं च गच्छति ॥
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम् ।
नरमेधस् यत्पुण्यं तदाप्तोति नराधिप ॥
कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः ।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते ॥
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः ।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुविमानवः ॥
कोकामुखमुपस्पृश् ब्रह्मचारी यतव्रतः ।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः ॥
प्राङ्गदीं च समासाद्य कृतात्मा भवति द्विजः ।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम् ।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् ।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते ॥
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥
अथ पम्पां समासाद्य भागीरथ्यां कृतोदकः ।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत् ॥
`ततो लेवलिकां गच्छेत्पुण्यां पुण्योपसेविताम् । वाजपेयमवाप्नोति विमानस्थश्च पूज्यते' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

3-82-8 शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स वलवताक्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु ॥ 3-82-9 पुरातने भविष्यपुराणादौ ॥ 3-82-16 छन्देन इच्छया ॥ 3-82-19 त्वमुखं त्वत्प्रधानम् ॥ 3-82-56 औशनसीं गतिं शुक्रत्वम् ॥ 3-82-71 व्यवसायान्निश्चयात् ॥ 3-82-105 नैत्यक नैवेद्यम् ॥