अध्यायः 091

युधिष्ठिरेण लोमशादिभिः सह तीर्थसेवनाय प्रस्थानम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।
देवर्षिणा च सहितो लोमशेन महात्मना ॥
अस्मानपि महाराज नेतुमर्हसि पाण्डव ।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥
श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च ।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥
भवतो भ्रातरः शूरा धनुर्धरवराः सदा ।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥
भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् ।
तीर्थानां पृथिवीपाल वनानां च विशांपते ॥
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः ।
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।
अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ॥
भरतस्य च वीरस्य सार्वभौमस्य पार्तिव ।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ॥
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ।
`भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च' ॥
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥
तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा ।
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।
धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ॥
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ।
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥
अथ व्यासो महाभागस्तथा पर्वतनारदौ ।
दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः ॥
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥
युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम् ।
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥
शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् ।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप ।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥
लोमशस्योपसंगृह्य पादौ द्वैपायनस् च ।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥
धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः ।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥
कठिनानि समादाय चीराजिनजटाधराः ।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः । प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥

3-91-7 तीर्थसंस्पर्शनान्नृपेति क. पाठः ॥ 3-91-13 अनुकीर्णानि व्याप्तानि । नोऽस्मान् ॥ 3-91-21 आर्जवमृजुबुद्धिं श्रद्धामित्यर्थः ॥ 3-91-23 मनो ह्यदुष्टं शूराणामिति क. पाठः ॥ 3-91-24 फलमाप्नुतेति क. पाठः ॥ 3-91-28 कठिनानि करण्डानि ॥ 3-91-29 परिचतुर्दशैः पञ्चदशाभिः । चतुर्दशभ्यः परि उपरीति व्युत्पत्तेः । संख्ययाव्ययासन्नेति समासः । बहुव्रीहौ संख्येये डजिति डच् ॥