अध्यायः 093

युधिष्ठिरादिभिः क्रमेण ब्रह्मसरस्तीर्थगमनम् ॥ 1 ॥ तत्रशमठेन युधिष्ठिरादीन्प्रति गययज्ञवर्णनम् ॥ 2 ॥

वैशंपायन उवाच ।
ने तथा सहिता वीरा वसन्तस्तत्रतत्र ह ।
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥
तत्स्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप ।
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः ।
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ॥
कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः ।
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥
प्रयागे देवयजने देवानां पृथिवीपते ।
ऊषुगप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः ।
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः ।
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् ।
संतर्पयन्तः सततं वन्येन हविषा द्विजान् ॥
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् ।
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥
नगो गयशिरो यत्र पुण्या चैव महानदी ।
वानीरमालिनी रम्या नदी पुलिनशोभिता ॥
दिव्यं पवित्रकूटं च पवित्रधरणीधरम् ।
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम् ॥
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।
रउवास च स्वयं तत्र धर्मराजः सनातनः ॥
सर्वासां सरितां चैव समुद्भेदो विशांपते ।
यत्रसंनिहितो नित्यं महादेवः पिनाकधृक् ॥
`परिपूर्णः परंज्योतिः परमात्मा सनातनः ।
ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः ॥
तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम् ।
रसिद्धिक्षेत्रमिदं मत्वासर्वेषांमोक्षकाङ्क्षिणाम् ॥
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे । ऋषियज्ञेन महता यत्राक्षयवटो महान् ।
अक्षये देवयजने अक्षयं यत्रवै फलम् ॥
ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः ।
ब्राह्मणास्तत्रशतशः समाजग्मुस्तपोधनाः ॥
चातुर्मास्येनायजन्त आर्षेण विधिना तदा । तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः ।
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम् ॥
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः ।
शमठोऽकथयद्राजन्नाधूर्तरजसं गयम् ॥
शमठ उवाच ।
आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः ।
पुण्यानि तस्य कर्माणि तानि मे शृणु भारत ॥
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः ।
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा ।
व्यञ़्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥
अहन्यहनि चाप्येवं याचतां संप्रदीयते ।
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः ।
न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ॥
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा ।
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥
यत्रस्म गाथा गायन्ति मनुष्या मरतर्षभ ।
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः ।
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥
न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥
कथं तु देवा हविषा गयेन परितर्पिताः ।
पुन शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥
सिकता वा यथा लोके यथा वा दिवि तारकाः । यथा वा वर्षतोधारा असंख्येयाः स्म केनचित् ।
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः ॥
एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः । बभूवुरस्य सरसः समीपे कुरुनन्दन ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

3-93-10 वानीरमालिनी वेत्रपङ्क्तियुक्ता । सरो गयशिरो यत्रेति क. ध. पाठः ॥ 3-93-24 ब्रह्मशब्देन वेदध्वनिना ॥