अध्यायः 094

लोमशेन युधिष्ठिरंप्रत्यगस्त्यचरितकथनारम्भः ॥ 1 ॥ वातापील्वलवृत्तकधनम् ॥ 2 ॥ तथा लोपामुद्रोत्पत्तिप्रकारकथनम् ॥ 3 ॥

वैशंपायन उवाच ।
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥
तत्रैव लोमशं राजा पप्रच्छ वदतांवरः ।
अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः ॥
लोमश उवाच ।
इल्वलो नाम दैतेय आसीत्कौरवनन्दना ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥
तदाप्रभृतिराजेन्द्र इल्वलो ब्रह्महाऽसुरः ।
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः ॥
मेषरूपी च वातापिः कामरूप्यभवत्क्षणात् ।
संस्कृत्यतं भोजयति ततो विप्रं जिधांसति ॥
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥
तामिल्वलेन महता स्वरेण गिरमीरिताम् ।
श्रुत्वाऽतिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः ॥
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।
वातापिः प्रहसन्राजन्निश्चक्राम विशांपते ॥
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः ।
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः ॥
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु ।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किंपराः । `किंमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः' ।
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः ॥
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः ।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।
स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥
स तानुवाच तेजस्वी सत्यधर्मपरायणः ।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः ।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥
स तस्य तस् सत्वस्य तत्तदङ्गमनुत्तमम् ।
संगृह्यतत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥
स तां विदर्भराजाय पुत्रकामाय ताम्यते ।
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा ।
विभ्राजमाना वपुषा व्यवर्धत शुभानना ॥
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् ।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥
तां यौवनस्थां राजेन्द्रशतं कन्याः स्वलंकृताः ।
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः ॥
सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।
आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ॥
यौवनस्थामपि च तां शीलाचारसमन्विताम् ।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥
सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति ।
तोषयामास पितरं शीलेन स्वजनं तथा ॥
वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता । मनसा चिन्तयामास कस्मै दद्यामिमांसुताम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

3-94-1 दुर्जयायां वातापिपुर्यां मणिमतीसंज्ञायाम् ॥ 3-94-6 नादात् न दत्तवान् ॥ 3-94-8 कामरूपी यथाकामं रूपाणि कर्तुं समर्थः । संस्कृत्य पक्त्वा ॥ 3-94-9 स च इल्वलश्च ॥ 3-94-19 प्रसवसन्तानं संततेरविच्छेदम् ॥ 3-94-20 तस्य तस्य सिंहमृगादेः अङ्गं कटिदृष्ठ्यादि । सर्वगुणवतीमित्यर्थः ॥ 3-94-22 जज्ञे जाता । विद्युदिति विशेषणं द्युतिविशेषोपपादनार्थम् ॥ 3-94-24 मुद्राणां तत्तन्मृगादिजातिगतानामसाधारणानां चिह्नानां कमनीयचक्षुष्ट्वानां लोपइव लोपस्तिरस्कारो यया सा लोपामुद्रा । आहिताग्न्यादिवत्पूर्वनिपातः । अन्येष्वपि दृश्यत इति दीर्घः ॥ 3-94-26 वशानुगाः इच्छानुरूपाः ॥