अध्यायः 096

धनयाचनाय श्रुतर्वादिनृपत्रयमुपगतेनागस्त्येन तद्धनानां समायव्ययतापरिज्ञानेन तैःसह इल्वलं प्रति गमनम् ॥ 1 ॥

लोमश उवाच ।
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥
स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम् ।
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥
तस्मै चार्घ्यं थान्यायमानीय पृथिवीपतिः ।
प्राञ्जलिः प्रयतो भूत्वापप्रच्छागमनेऽर्थिताम् ॥
अगस्त्य उवाच ।
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते ।
थाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥
लोमश उवाच ।
तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत् ।
अतो विद्वन्नुपादत्स्व यदत्रव्यतिरिच्यते ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥
स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः ।
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥
तयोरर्ध्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत् । अनुज्ञाप्यच पप्रच्छ प्रयोजनमुपक्रमे ।
`वद कामं मुनिश्रेष्ठ धन्योस्म्यागमनेन ते' ॥
अगस्त्य उवाच ।
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥
लोमश उवाच ।
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।
अतो ज्ञात्वा तु गृह्णीतं यदत्रव्यतिरिच्यते ॥
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।
अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः ॥
त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि ।
अभिगम्य महाराज विषयान्ते महामनाः ॥
अर्चयित्वा यथान्यायमैक्ष्वाको राजसत्तमः ।
समस्तांश्च ततोऽपच्छत्प्रयोजनमुपक्रमे ॥
अगस्त्य उवाच ।
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।
यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः ॥
लोमश उवाच ।
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।
एतज्ज्ञात्वा ह्युपादद्ध्वं यदत्रव्यतिरिच्यते ॥
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।
इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।
तमतिक्रम्य सर्वेऽद्यवयं चार्तामहे वसु ॥
लोमश उवाच ।
तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम् ।
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥

3-96-2 विषयान्ते देशसीमान्ते ॥ 3-96-3 आगमने निमित्तभूतां अर्थिताम् । किमिच्छन्नागतोसीति पप्रच्छेत्यर्थः ॥ 3-96-6 उपादानात् धनग्रहणात् ॥ 3-96-7 वाध्र्यश्वमगमत्तत इति क. ध. पाठः ॥ 3-96-8 उपक्रमे आगमने ॥ 3-96-9 नौ आवाभ्याम् ॥ 3-96-19 वसुमान् धनवान् ॥