अध्यायः 100

इन्द्रेण वृत्रहननम् ॥ 1 ॥ ततो देवगणाभिपीडनात्समुद्रं प्रविष्टैदैत्यैर्जगद्विनाशनाध्यवसायः ॥ 2 ॥

लोमश उवाच ।
ततः स वज्री बलभिद्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥
कालकेयैर्महाकायै समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥
ततो युद्धं समभवद्देवानां दानवैः सह ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥
उद्यतप्रतिविद्धानां स्वङ्गानां वीरबाहुभिः ।
आसीत्सुतुमुः शब्दः शरीरेष्वभिपात्यताम् ॥
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम् ।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥
तेषां वेगवतां वेगं सहितानां प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥
विष्णुना गोपितं शक्रं दृष्ट्वादेवगणास्ततः ।
स्वं स्वंतेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥
स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।
तस् प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन् ॥
स चक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।
यथा महाशैलवरः पुरस्ता- त्स मन्दरो विष्णुकराद्विमुक्तः ॥
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं न मेने स्वकराद्विमुक्तं वृत्रं भयाच्चापि हतं न मेने ॥
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चन्द्रमभिष्टुवन्तः ।
`वृत्रं हतं संददृशुः पृथिव्यां वज्राहतं शैलमिवावदीर्णम् ॥
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ।
ते वध्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः ॥
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च ।
तदा स्म मन्त्रं सहिताः प्रचक्रु- स्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥
तत्रस्म केचिन्मतिनिश्चयज्ञा- स्तांस्तानुपयानुपवर्णयन्ति ।
तेषां तु तत्रक्रमकालयोगा- द्धोरा मतिश्चिन्तयतां बभूव ॥
ये सन्ति विद्यातपसोपपन्ना- स्तेषां विनाशः प्रथमं तु कार्यः ।
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ॥
येसन्ति केचिच्च वसुंधरायां तपस्विनो धर्मविदश् तज्ज्ञाः ।
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः ।
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि शततमोऽध्यायः ॥ 100 ॥

3-100-1 रोदसी द्यावापृथिव्यौ ॥ 3-100-5 तालैस्तालफलैः ॥ 3-100-10 व्यदधत् निहितवान् ॥ 3-100-13 बलस्थं बलवन्तम् ॥ 3-100-16 हतमपि वृत्रं भयात् न हतमिव मेने ॥ 3-100-21 ध्रियन्ते जीवन्ति ॥ 3-100-23 वृद्धिभावाः प्राप्तधीनिश्चयाः । वरुणस्यालयं समुद्रम् ॥