अध्यायः 101

समुद्रान्तर्हितैर्दैत्यै रात्रौरात्रौ बहिर्निर्गत्याश्रमेषु ऋषिगणेषु निहतेषु देवगणैर्नारायणस्य शरणीकरणम् ॥ 1 ॥

लोमश उवाच ।
समुद्रं ते समाश्रित्य वरुणं निधमम्भसः ।
कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने ॥
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः ॥
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।
`कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्' ॥
भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः ।
वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः ॥
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा । निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात् ।
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥
`क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् ॥
प्रभाते समदृश्यन्त नियताहारकर्शिताः ।
महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः ।
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥
लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥
निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम् ।
जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥
एवं संक्षीयमाणाश्च मानवा मनुजेश्वर ।
आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात् ॥
केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः ।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् ॥
केचिदत्रमहेष्वासाः शूराः परमहर्षिताः ।
मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे ॥
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ॥
शरण्यं शरणं देवं नारायणमजं विभुम् । तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम् ।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम् ॥
त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो । त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति ।
`त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते' ॥
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।
वाराहं वपुराश्रित्यजगदर्थे समुद्धृता ॥
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा ।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥
अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।
वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया ॥
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥
एवमादीनि कर्माणि येषां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे । रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ।
`शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥

3-101-1 ---निश्चित्यैवमसुरा वज्रसंहारदुःखिता इति क. पाठः. ---- कालायाः कश्यपभार्यायाः पुत्राः ॥ 1 ॥ 3-101-7 सृष्टाः मृत्युना ग्रस्ताः ॥ 3-101-16 दानवानां वधायेति शेषः ॥ 3-101-21 इङ्गति चलतीति इङ्गं पचाद्यच् जङ्गमम् । नेङ्गति स्थावरम् ॥