अध्यायः 103
लोमशेन युधिष्ठिरंप्रति विन्ध्यगिरेरिवृद्धेरगस्त्येन तन्निरोधस् च हेतुकथनम् ॥ 1 ॥ देवैः समुद्रशोषणं प्रार्थितेनागस्त्येन तैःसह समुद्रंप्रति गमनम् ॥ 2 ॥
युधिष्ठिर उवाच ।
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥
लोमश उवाच ।
अद्रिराजं महाघोरं रमेरुं कनकपर्वतम् ।
उदयास्तमने भानुः प्रदक्षिणमवर्तत ॥
तं तु दृष्ट्वा तथा विन्ध्य शैलः सूर्यमथाब्रवीत् ।
यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥
प्रदक्षिणश्च क्रियते मामेवं करु भास्कर ।
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभापत ॥
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ।
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाऽचलः ।
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ॥
ततो देवाः सहिताः सर्व एव ।
सेन्द्राः समागम्य महाद्रिराजम् ।
निवारयामासुरुपायतस्तं
न च स्म तेषां वचनं चकार ॥
अथाभिजग्मुर्मुनिमाश्रमस्थं
तपस्विनं धर्मभृतां वरिष्ठम् ।
अगस्त्यमत्यद्भुतवीर्यदीप्तं
तं चार्थमूचुः सहिताः सुरास्ते ॥
सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा ।
शैलराजो वृणोत्येप विन्ध्यः क्रोधवशानुगः ॥
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम ।
ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ।
सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ।
दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित् ॥
यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥
एवं स समयं कृत्वाविन्ध्येनामित्रकर्शन ।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥
विन्ध्योऽपितद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते ।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि ॥
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः ।
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् ।
किमर्थमभियाता स्थ वरं मत्तः कमिच्छथ ॥
एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन् ।
`सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः' ॥
एवं त्वयोच्छाम कृतं हि कार्यं
महार्णवं पीयमानं महात्मन् ।
ततो वधिष्याम सहानुबन्धा-
न्कालोपसृष्टान्सुरविद्विषस्तान् ॥
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् ।
करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितांपतिम् ।
ऋषिभिश्च तपःसिद्धै सार्धं देवैश्च सुव्रत ॥
मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा ।
अनुजग्मुर्महात्मानं द्रष्टुकानास्तदद्भुतम् ॥
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःखनम् ।
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च ।
तानाग्राहसमाकीर्णं नानाद्विजगणान्वितम् ॥
अगस्त्यसहिता देवाः सगन्धर्वमहारगाः ।
ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥