अध्यायः 104
अगस्त्येन समुद्रसलिले निपीते देवैर्दैत्यहननम् ॥ 1 ॥ देवैः पुनरर्णवपूरणाय पीतोदकोत्सर्जनं प्रारिथितेनागस्त्येन तस् स्वेन जीर्णीकरणोक्तौ तदर्थं ब्रह्माणंप्रति प्रार्थनम् ॥ 2 ॥
लोमश उवाच ।
समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।
उवाच सहितान्देवानृषींश्चैव समागतान् ॥
एष लोकहितार्थं वै पिबामि वरुणालयम् ।
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः ।
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥
पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदाऽमराः ।
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥
त्वं नस्त्राता विधाता च लोकानां लोकभावन ।
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥
स पूज्यमानस्त्रिदशैर्महात्मा
गन्धर्वतूर्येषु नदत्सु सर्वशः ।
दिव्यैश्च पुष्पैरवकीर्यमाणो
महार्णवं निःसलिलं चकार ॥
दृष्ट्वा कृतंनिःसलिलं महार्णवं
सुराः समस्ताः परमप्रहृष्टाः । 3-104-7cप्रगृह्य
दिव्यानिवरायुधानि
तान्दानवाञ्जघ्रुरदीनसत्वाः ॥
ते वध्यमानास्त्रिदशैर्महात्मभि-
र्महाबलैर्वेगिभिरुन्नदद्भिः ।
न सेहिरेवेगवतां महात्मनां
वेगं तदा धारयितुं दिवौकसाम् ॥
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः ।
रचक्रु सुतुमुलं युद्धं मुहूर्तमिव भारत ॥
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः ।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥
तेहेमनिष्काभरणाः कुण्डलाङ्गदधारिणः ।
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः ॥
हतशेषास्ततः केचित्कालेया मनुजोत्तम ।
विदार्य वसुधां देवीं पातालतलमास्थिताः ॥
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुह्गवम् ।
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन् ॥
त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम् ।
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥
पूरस्व महाबाहो समुद्रं लोकभावन ।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः ।
`तांस्तदा सहितान्देवानगस्त्यःसपुरन्दरान्' ॥
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ।
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥
केतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः ।
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥
परस्परमनुज्ञाप्यप्रणम्य मुनिपुङ्गवम् ।
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् ।
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥
ते धातारमुपागम्य त्रिदशाः सह विष्णुना ।
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥