अध्यायः 106
अश्वमेधे दीक्षितसगराज्ञया षष्टिसहस्रैस्तत्पुत्रैर्भुवं संचारितस्याश्वस् समुद्रतीरेऽन्तर्धानम् ॥ 1 ॥ पित्राज्ञया हयान्वेषणाय समुद्रतीरं खनद्भिः सागरैः पातालतले तपस्यतो भगवतः कपिलस् तत्समीपचारिणो हयस्य च दर्शनम् ॥ 2 ॥
लोमश उवाच ।
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः ।
यथोक्तं तच्चराकाथ श्रद्दधद्भरतर्षभ ॥
[एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः ।
घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः ॥
धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः ।
ततः कालेन महता समुत्तस्थुर्महाबलाः ॥]
षष्टिः पुत्रसहस्रणि तस्याप्रतिमतेजसः ।
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः ।
बहुत्वाच्चावजानन्तः सर्वाल्लोँकान्सहामरान् ॥
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।
सर्वाणि चैव भूतानि शूरा समरशालिनः ॥
वध्यमानास्तदा लोकाः सागरैर्मन्दबुद्धिभिः ।
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥
तानुवाच महाभागः सर्वलोकपितामहः ।
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥
नातिदीर्घेण कालेन सागराणां क्षयो महान् ।
विष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥
एवमुक्तास्तु ते देवा लोकाश् मनुजेश्वर ।
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥
ततः काले बहुतिथे व्यतीते भरतर्षभ ।
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ॥
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ।
`सर्वैरेव महोत्साहैः स्वच्छन्दप्रचरो नृप' ॥
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् ।
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् ।
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ।
तेनोक्ता दिक्षु सर्वासु पुत्रा मार्गत वाजिनम् ॥
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।
अमार्गन्त महाराज सर्वंच पृथिवीतलम् ॥
ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ॥
ससमुद्रवनद्वीपा सनदीनदकन्दरा ।
सपर्वतवनोद्देशा निखिलेन मही नृप ॥
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव ।
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्चितः ।
उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् ।
याज्ञीयं तं विनाह्यश्वं नागन्तव्यं हि पुत्रकाः ॥
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः ।
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् ।
`समुद्रे पृथिवीपाल पदं मार्गं च वाजिनः' ॥
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः ।
कुद्दालैर्मुसलैश्चैव समुद्रं यत्नमास्थिताः ॥
स खन्यमानः सहितैः सागरैर्वरुणालयः ।
अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः ॥
असुरोरगरक्षांसि सत्वानि विविधानि च ।
आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः ।
प्राणिनः समदृश्यन्त शतशोथ सहस्रशः ॥
एवं हि खनतां तेषां समुद्रं वरुणालयम् ।
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः ॥
अपश्यन्त हयं यत्र विचरन्तं महीतले ।
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ॥
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम् ।
`दृष्ट्वा हि विस्मिताः सर्वे बभूवुः सगरात्मजाः' ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणइ षडधिकशततमोऽध्यायः ॥ 106 ॥
3-106-29 पूर्वोत्तरे ऐशान्याम् ॥