अध्यायः 111

युधिष्ठिरेण कौशिकीतीरे ऋश्यशृङ्गाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति विभाण्डकान्मृग्यामृश्यशृङ्गोत्पत्तिकथनम् ॥ 2 ॥ लोमपादेनानावृष्टिनिवृत्तये ऋश्यशृङ्गानयनं चोदिताभिर्वेश्याभिस्तद्वनगमनम् ॥ 3 ॥

लोमश उवाच ।
एषा देवनदी पुण्या कौशिकी भरतर्षभ ।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ।
ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः ॥
तपसो यः प्रभावेन वर्षयामास वासवम् ।
अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।
विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।
लोमपादो दुहितरं सावित्रीं सविता यथा ॥
युधिष्ठिर उवाच ।
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।
विरुद्धयोनिसंसर्गः कथं च तपसा युतः ॥
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता ।
लोभयामास या चेतो मृगभूस्य तस्य वै ॥
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः ।
कथं वै विषये तस्य नावर्षत्पाकशासनः ॥
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् ।
वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम् ॥
लोमश उवाच ।
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः ।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् ।
महाह्रदे महातेजा बालः स्थविरसंभतः ॥
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।
दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः ॥
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम् । अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ।
सह तोयेन तृषिता गर्भिणी चाभवत्ततः ॥
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा ।
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ॥
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् । तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः ।
ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ॥
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः ।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः ।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥
एतस्मिन्नेव काले तु सखा दशरशस्य वै ।
कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः । `दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत' ।
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ॥
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया ।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ॥
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम् ।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ॥
तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह ।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव ।
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ॥
स चेदवतरेद्राजन्विषयं ते महातपाः ।
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ॥
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥
राजानमागतं ज्ञात्वा प्रतिसंजगृहुः प्रजाः ।
`स च ता प्रतिजग्राह पितेव हितकृत्सदा' ॥
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् ।
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः ।
शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः ॥
ततश्चानाययामास वारमुख्या महीपतिः ।
वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः ॥
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः ।
लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः ॥
ता राजभयभीताश्च शापभीताश्च योषितः ।
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ॥
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् ।
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि ।
ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ॥
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः ।
धनं च प्रददौ भूरि रत्नानि विविधानि च ॥
ततो रूपेण सपन्ना वयसा च महीपते । स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

3-111-2 काश्यपस्य विभाण्कस्य ॥ 3-111-3 हर्षयामास वासवमिति ध. पाठः ॥ 3-111-10 शुस्रूषोर्मे इति संबन्धः ॥ 3-111-15 सूय प्रसूय ॥ 3-111-16 विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ॥ 3-111-19 अङ्गानां देशानाम् ॥ 3-111-20 मिथ्याकृतः मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ॥ 3-111-24 निष्कृतिं प्रायश्चित्तम् ॥ 3-111-25 मुनिसुतमाह्वयस्वचेति क. पाठः ॥ 3-111-31 सर्वत्र परवञ्चनादौ निष्णाताः कुशलाः ॥ 3-111-34 जरद्योषा वृद्धास्त्री ॥ 3-111-36 अन्वजानात् अजुज्ञातवान् ॥