अध्यायः 114

पुनर्विभाण्डकासन्निधाने तदाश्रमं गतया गणिकातरुण्या नौकारोपणेन ऋश्यशृङ्गेऽङ्गदेशमानीते महावृष्टेराविर्भावः ॥ 1 ॥ ऋश्यशृङ्गेण लोमपादप्रार्थनया शान्ताभिधायास्तत्सुतायाः परिणयनम् ॥ 2 ॥ लोमपादेन क्रुद्धस् विभाण्डकस्य प्रसादनम् ॥ 3 ॥ ऋश्यशृङ्गेण पितृशासनादङ्गदेशे तनयोदयावधिनिवासपूर्वकं ततः सहभार्यया निजाश्रमाभिगमनम् ॥ 4 ॥

विभाण्डक उवाच ।
रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन ।
अतुल्यवीर्याण्यभिरूपवन्ति विघ्रं सदा तपसश्चिन्तयन्ति ॥
सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः ।
सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन्वनेषु ॥
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथंचित् ।
कृत्वा विघ्रनं तापसानां रमन्ते पापाचारास्तापसस्तान्न पश्येत् ॥
असज्जनेनाचरितानि पुत्र पानान्यपेयानि मधूनि तानि ।
माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥
रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयांबभूव ।
नासादयामास यदा त्र्यहेण तदा स पर्याववृते श्रमाय ॥
यदा पुन काश्यपो वै जगाम फलान्याहर्तुं विधिनाश्रमेऽसौ ।
तदा पुनर्लोभयितुं जगाम सा वेशायोषा मुनिमृश्यशृह्गम् ॥
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।
प्रोवाच चैनां भवतः श्रमाय गच्छाव यावन्न पिता ममैति ॥
लोमश उवाच ।
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य वेगेन विमुच्य नावम् ।
प्रलोभयन्त्यो विविधैरुपायै- राजग्मुरङ्गाधिपतेः समीपम् ॥
संस्थाप्यतामाश्रमदर्शने तु संतारितां नावमथातिशुभ्राम् ।
तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम् ॥
अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् ।
ददर्श मेघैः सहसा प्रवृष्ट- मापूर्यणाणं च जगज्जलेन ॥
स रोमपाद परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् ।
क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च ॥
विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् ।
समादिशत्पुत्रगृद्धी महर्षि- र्विभाण्डकः परिपृच्छेद्यदा वः ॥
स क्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च ।
किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः ॥
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा ।
अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः ॥
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् ।
जगाम चम्पां प्रतिधक्ष्यमाण- स्तमङ्गराजं सपुरं सराष्ट्रम् ॥
स वै श्रान्तः क्षुधितः काश्यपस्ता- न्घोषान्समासादितवान्समृद्धान् ।
गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र ॥
अवाप्य सत्कारमतीव हृष्टः प्रोवाच कस्य प्रथिताः स्थ गोपाः ।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य ॥
देशेषु देशेषु स पूज्यमान- स्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम् ॥
स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।
शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव ॥
ग्रामां श्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः ।
चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेर्नरेद्र ॥
स तत्रनिक्षिप्य सुतं महर्षि- रुवाच सूर्याग्निसमप्रभावः ।
जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव ।
शान्ता चैनं पर्यचरन्नरेन्द्र स्वे रोहिणी सोममिवानुकूला ॥
अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वा यथा ह्यगस्त्यम् ।
नलस्य वै दमयन्ती यथा भू द्यथा शची वज्रधरस्य चैव ॥
नालायनी चेन्द्रसेना बभूव वस्या नित्यं मुद्गलस्याजमीढ ।
`यथा सीता दाशरथेर्महात्मनो यथा तव द्रौपदी पाण्डुपुत्र' । तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥
तस्याश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन्पुण्यकीर्तिः ।
अत्रस्नातः कृतकृत्यो विशुद्ध- स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥

3-114-5 श्रमाय आश्रमाय ॥ 3-114-6 विधिना श्रावणेनेति झ. पाठः । वेशयोषा वेश्या ॥ 3-114-9 आश्रमो यत्रस्थैर्दृश्यते तावतिदेशे आश्रमदर्शने । नाव्याश्रमं नामेति झ. पाठः ॥ 3-114-11 गाश्चैव मार्गेषु च कर्षणानीति झ. पाठः ॥